This page has not been fully proofread.

१२ आदितोऽध्यायः]
 
तमेवात्ययं दर्शयन्नाह -
 
-
 
रतियोगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान ॥
रतियोगे इति । रत्यर्थे योगे यन्त्रसंप्रयोगे । चोलराजश्चोलविषये
राजा । तेन हि चित्रसेना गणिका रतारम्भे दृढमालिङ्गिता सौकुमार्या-
च्छरीरपीडामभजत् । तथाप्रदर्शितावस्थामपि तां सुकुमारोपक्रमां रागा-
न्ध्यादगणिततद्वलः कीलयोरसि प्रयुक्तया व्यापादितवान् ।
 
१५४
 
कामसूत्रम् ।
 
कर्तर्या कुन्तलः शातकणिः शातवाहनो महादेवीं मेलयवतीम् ॥
कुन्तल इति । कुन्तलविपये जातत्वात्तत्समाख्यः । शातकर्णिः शतकर्ण-
स्थापत्यम् । शातवाहन इति संज्ञा । स हि महादेव मलयवतीमचिर-
प्रतिविहितमौन्द्यामजातबलामपि मदनोत्सवे गृहीतवेषां दृष्ट्वा जातराग-
स्तामभिगच्छन्रागाक्षिप्तचेताः शिरसि कर्तर्यातिवलया जघान ।
 
नरदेवः कुँपाणिविंद्धया दुष्प्रयुक्तया नहीं काणां चकार ।
नरदेवः पाण्ड्यरॉजस्य सेनापतिः । कुपाणिः शस्त्रप्रहारात्कुणिहस्तः ।
स हि राजकुले नहीं चित्रलेखां नृत्यन्तीं दृष्ट्वा जातरागः संप्रयोग रा.
गान्धो कुपाणित्वाहुष्प्रयुक्तया कपोलतलमप्राप्याक्षिप्राप्तया
काणां चकार । संदेशिका नोदाहृता । स्वभावतो नात्ययिकत्वात् ।
यद्वशादयुक्तं परिहरति [तत्] दर्शयन्नाह-
भवन्ति चात्र श्लोकाः-
विद्धया
 
नास्त्यत्र गणना काचिन च शास्त्रपरिग्रहः ।
प्रवृत्ते रतिसंयोगे राग एवात्र कारणम् ॥
 
नास्तीति । द्विविधो हि कामी शास्त्रतत्त्वज्ञस्तद्विपरीतश्च । तत्र शा.
स्वतत्त्वज्ञस्यात्र प्रहणनविधौ न स्वभावतो गणनास्ति । काचिदिदमात्य-
यिकमिदम् । इदमित्यपेक्षयेत्यर्थः । न च शास्त्रपरिग्रहः । शास्त्रवि-
हिताननुष्ठानात् । तस्मादस्य प्रवृत्ते रतिसंयोगे राग एवात्र प्रहणनविधौ
प्रयोक्तव्ये कारणम् । नापरज्ञानम् । शास्त्रतत्त्वज्ञस्य तु सत्यपि रागे
 
१. 'पचालराज.'. २. क्वचित्पुस्तके 'मलयवतीम्' इति नोपलभ्यते. ३. 'मान्द्यात्'.
४. 'कृपाणि.'; 'विप्राणि:'. ५. 'राजन्यसं. ६. 'लोकाः' इति पुस्तकान्तरे नास्ति,
'गरिका'.