This page has not been fully proofread.

७ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१५३
 
• नाम् । तयुवतीनामुरसि कीलानि च तत्कृतानि दृश्यन्ते । देश-
सात्म्यमेतत् ॥
 

 
कीलामुरसीति । तत्र मुटिरेव तर्जनीमध्यमयोर्वहिः पृष्ठमागेन नि-
ष्क्रान्तयोरुपर्यङ्गुष्ठयोजनात्कीला । तयाघोमुख्या ताडनम् । कर्तरी द्वि-
विषा प्रसृतकुजिताङ्गुलिमेदात् । तत्र प्रसृताङ्गुलिर्द्विविधा । हस्तेनैकेन
भद्रकर्तरी । द्वाभ्यां संश्लिष्टाभ्यां यमलकर्तरी । या कुश्चिताङ्गुल्यङ्गुष्ठा-
ग्रोपरिन्यैस्तकुञ्चिततर्जनीका सा शब्दकर्तरी प्रयुज्यमाना लथाङ्गुलित्वा-
दमितशब्दवती भवति । कैश्चिदुत्पत्रिकेत्युच्यते । उभाभ्यामपि कनि-
ठिकाग्रभागेण शिरसि ताडनम् । तर्जनीमध्यमयोर्मध्यमानामिकयोर्वा
= मध्येनाङ्गुष्ठं निष्काश्य बद्धा मुष्टिविंद्धा । तयाङ्गुष्ठकवदनया कपोलयोर्व्य-
धनमेव ताडनम् । मुष्टिरेव तर्जन्यङ्गुष्ठकाभ्यां तर्जनीमध्यमाभ्यां वा संद-
शनात्संदंशिका । तया स्तनयोः पार्श्वयोश्च मैलनपूर्वकं मांसस्याकर्षणमेव
ताडनम् । पूर्वैरित्यपहस्त्रादिभिः । अष्टविधमिति दाक्षिणात्यानाम् । आ-
चार्याणां तु चतुर्विधमस्ति । एतत्प्रत्यक्षेण दर्शयन्नाह -कीलानि चेति ।
तधुवतीनां दाक्षिणात्यतरुणीनाम् । उरसीत्युपलक्षणम् । उरसि कीला-
कृतम् । शिरसि सीमन्तमुखे कर्तरीकृतम् । कपोल्योर्विद्धाकृतम् । देश-
सात्म्यमेतत् । यद्रागवशात्कृतं चिहं वैरूप्यकारणमपि श्लाघ्यते ।
तैन्नान्यत्र प्रयोक्तव्यमित्याह-
P
 
---
 
GOOG
 
कष्टमनार्यवृत्तमनादृतमिति वात्स्यायनः ॥
 
कष्टमिति दुःखावहम् । निर्दयकर्मत्वात् । अनार्यवृत्तमसाधुचरितम् ।
अनाहतमित्यनादरणीयम् । दोषावहत्वात् ।
 
तथान्यदपि देशसात्म्यात्मयुक्तमन्यत्र न मयुञ्जीत ॥
तथान्यदपि प्रस्तराद्याहननं देशसात्म्यात्प्रयुक्तं दाक्षिणात्यैरन्यत्र नेति ।
आत्ययिकं तु तत्रापि परिहरेत् ॥
 
• आत्ययिकं विनाशासवैकल्यकरणं तत्रापि परिहरेत् यत्रापि प्रयुक्तम् ।
 
१. ' कीलानि च तयुवती नामुरसि. २. 'एतदिति'. ३. 'व्यस्त - '. ४. 'मिषण-'.
'५. 'तेनान्यत्र न'. ६. 'चाम्यदपि', ७. 'सात्म्यप्रयुक्त -'. ८. 'प्रयोकव्यम्'.
 
का० २०