This page has not been fully proofread.

१५२
 
कामसूत्रम् ।
 
१२ आदितोऽध्यायः ]
 
योगा इति सीत्कृतविरुतात्मनः शब्दितस्य ग्रहणनस्य च प्रयोगा उक्ताः ।
स्त्रीपुंसयोः प्रहणनसीत्कृतेषु कस्य किं सहजं तेज इत्याह-
भवतात्र श्लोकौ -
 
पारुष्यं रभसत्वं च पौरुपं तेज उच्यते ।
अशक्तिरार्तिर्व्यावृत्तिरवलत्वं च योषितः ॥
रागात्मयोगसात्म्याच्च व्यत्ययोऽपि क्वचिद्भवेत् ।
न चिरं तस्य चैवान्ते प्रकृतेरेव योजनम् ॥
पारुष्यमिति चेतसः शरीरस्य च कठोरता । रभसत्वमित्यविमृश्य-
कारिता धाष्टर्यै च । एतदुभयं पुरुषस्येदं तेजो धर्म इत्यर्थः । तद्योगा-
गात्पुरुषः मैहरति । अशक्तिर्हन्तुमसामर्थ्यम् । हस्तसौकुमार्यादार्तिः
पीडा । त्या व्यावृत्तिः । पुरुषेण हन्तुं नियुक्तायाः स्त्रिया अवलत्वं
निष्णाणता । स्वयमीपदाहरणात् । एते स्त्रैणा धर्माः । तद्युक्तत्वात् । न
प्रहणनम् । सीत्कृतमेव तदुद्भवम् । अतः सीत्कृतप्रहणने विषयप्रतिनि
यते । कचिदिति । न सर्वत्र रते व्यत्ययोऽपि स्यात् । कारणमाह राग-
प्रयोगसात्म्यादिति । रागस्य प्रकर्पेण योगाद्देशसात्म्याच स्त्री स्वधर्मी
स्त्यक्त्वा पौरुपं तेजो विभ्रती प्रहन्ति तदा पुरुषः स्त्रीमहणनार्थे स्वधर्म
त्यक्त्वा तद्धर्मानालम्ब्य सीत्कृतविरुतानि कुर्यात् । तानपि न चिरम् ।
कियतीमपि कालकलां व्यत्ययः स्यात् । ततः किं स्यादित्याह
चैवेति तस्यैव व्यत्ययस्यान्ते प्रकृतेरेव योजनं स्यात् । यथा खतेजसा
स्त्रीपुंसयोर्वर्तनमित्यर्थः । तदेवं व्यत्ययप्रकृतियोजनाभ्यां प्रवृत्तेयाता (?)-
मा समाप्तेः । रागप्रयोगसात्म्याभावे तु प्राक्तन एव विधिः । तत्र
व्यत्ययाभावात् ।
 
तस्य
 
प्रहणनं चतुर्विधमुक्तं यथा तदष्टधा दर्शयन्नाह -
कीलामुरसि कर्तरी शिरसि विद्धां कपोलयोः संदशिकां स्त-
नयोः पार्श्वयोश्चेति पूर्वैः सह महणनमष्टविधमिति दाक्षिणात्या-
१. 'विहितात्मनः'. २. 'भवतथात्र श्लोको' इति पुस्तकान्तरे नाखि ३. 'प्रहन्ति'.
 
४. 'नन्तं नला व्यावृत्ति..