This page has not been fully proofread.

i
 
७ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
अप्सु वदरस्येव निपततः (शब्दानुकरणं) फूत्कृतम् ॥
ताल्वग्रार्दुपरिभागे जिह्वाग्रे संश्लेषादुत्पद्यते ।
 
बदरस्येवेति वृत्तगुटिको-
पलक्षणार्थम् । निपततः । शब्दानुकरणमिति वर्तते । यस्येदं लक्षणं
सलिले शर्करापातकालनिःखनितध्वनीति ।
 
सर्वत्र चुम्वनादिष्पक्रान्तायाः ससीत्कृतं तेनैव प्रत्युत्तरम् ॥
चुम्बनादिष्वपक्रान्ताया इति चुम्बननखदशनच्छेद्येषु पुरुषेणामियु-
क्तायाः सत्सीत्कृतं तेनैव प्रत्युत्तरं येनैव चुम्बनादीनामन्यतमेनोपक्रान्ता ।
तेनैव हिंकारादिसहायेन प्रत्युत्तरेदित्यर्थः । अनेन 'कृते प्रतिकृतं कु-
र्यात्' इति स्मरयति ।
 
रागवशात्महणनाभ्यासे वारणमोक्षणालमर्थानां शब्दानाम-
म्वार्थानां च सेतान्तश्वसितरुदितस्तनितमिश्रीकृतप्रयोगा विरु-
तानां च । रागावसानकाले जघनपार्श्वयोस्ताडनमित्यतित्वरया
चापरिसमाप्तेः ॥
 
१५१
 
रागवशात्प्रहणनाभ्यास इति । यदा रागस्योद्रेकान्नायकः पौनःपु-
न्येन प्रहरेत्तदा वारणार्थानां प्रयोगो युक्तः । किंरूप इत्याह—सता-
न्तेति । सह खिन्नाभ्यां श्वसितरुदिताभ्यां वर्तते यत्र स्वनितं तेन यो-
जित इत्यर्थः । पारावतादिविरुतानां च प्रयोग एवंविध एव । रागावसा-
नकाल इति । लिङ्गादासन्नवर्तिनी रतिरिति ज्ञात्वा जघने तृतीये रागा-
स्पदे पार्श्वयोः कक्षाघस्ताडनम् । समतलेनेति पारिशेप्यात् । अन्ये 'स-
मतलकेन' इति पठन्त्येव । अतित्वरयेति । विश्रब्धिकया हि ताडने मा-
गोपना हि रतिर्निवर्तते ।
 

 
तत्र लावकहंसविकूजितं त्वरयैव । इति स्तननमहणनयोगाः ॥
तत्रेति समतलकरताडने लावकहंसयोरिव शब्दितं कूजितं स्यात् ।
मृदुमधुरत्वात् । तच्च त्वरयैव । प्रहणनस्य त्वरितत्वात् । स्तननप्रहणन-
१. 'बदरस्येवाप्सु निमज्जत. प्लुकृतम्'. २. 'उपरिभागत्य'; 'उपरिभागजिद्दाप्रे.
३. 'संश्लेषातु बदरस्येवेति'. ४. 'उपक्रान्तायाः'. ५. 'सतत -'; 'सुरतान्ते'; 'संतती'.
६. 'मिश्रितप्रयोगः'. ७. 'पीडन'. ८. 'लावकपरभृतहस-.