This page has not been fully proofread.

१५०
 
कामसूत्रम् ।
 
१२ आदितोऽध्यायः]
 
मातेस्तृप्तिं यावत् । स्तनान्तरे हि रागास्पदस्य हृदयस्यावस्थानात् ।
योपितो हि त्रीणि रागस्थानानि – शिरो जघनं हृदयं चेति । तेषु हन्य-
मानेषु चिरचण्डवेगापि रागं मुञ्चति ।
 
-
 
तत्र हिंकारादीनामनियमेनाभ्यासेन विकल्पेन च तत्कालमेव
प्रयोगः ॥
 
.
 
तत्रेत्यपहस्तप्रहणने । हिंकारादीनां सप्तानाम् । अनियमेनेति मृदुना
हृदयस्य हन्यमानत्वात्सर्वेपामेवार्तिसूचकानां संभवः । विकल्पेन मृदुम-
ध्यातिमात्रमेदेन । अभ्यासेन च पौनः पुन्येन । तत्कालमेवेत्यपहस्तग्रहण-
नकालमेव । तस्य समाप्त्यवधिकः कालः ।
 
शिरसि किंचिदाकुञ्चिताङ्गुलिना करेण विवदन्त्याः फूत्कृत्य
महणनं तत्प्रसृतकम् ॥
 
किंचिदाकुश्चिताङ्गुलिना फणाकारेणेत्यर्थः । विवदन्त्या इति । अपहस्ते-
नासुखायमाना यदि प्रहारान्तराकाङ्क्षया प्रत्यवतिष्ठेत्तदास्याः प्रथमे रागा-
स्पदे शिरसि तदनुरूपेण प्रसृतकेन प्रहणनमपरं मन्दोपक्रमं वर्धमानरा-
गमा परिसमाप्तर्विधेयम् । फूत्कृत्येति रागदीपनार्थम् ।
 
तत्रान्तर्मुखेन कूजितं फूत्कृतं च॑ ॥
 
-
 
तत्रेति प्रसृतकाघाते । कूजितं फूत्कृतं च नायिकायाः स्यात् । कथ
मित्याह – अन्तर्मुखेनेति । मुखस्यान्तः स्थानमन्तर्मुखम् । तत्र कूजितम् ।
तत्संवृतेन कण्ठेन । कूजत्यनेनाव्यक्तं शब्दितम् । यदि विवृतेन जिह्वा-
मूलेन च तत्फूत्कृतम् । तस्यानुकार्यं वक्ष्यति——चदरस्येवेति ।
 
रतान्ते च श्वसितरुदिते । वेणोरिव स्फुटतः शब्दानुकरणं
त्कृतम् ॥
 
रतान्ते च श्वसितरुदिते । तदानीं धातुक्षयाच्छ्मोत्पत्तेः । श्वसितं
रुदितं च मधुरकोक्त्या प्रयोक्तव्यम् । वेणोरिव पुरुपव्यापारेण ग्रन्थि-
स्थाने स्फुटतस्तच्च द्वैत्कृतम् ।
 
१. 'च' इति पुग्नकान्तरे नास्ति. २. 'फूत्कृनम्. ३. 'फूत्कृतम्'.