This page has not been fully proofread.

S
 
पारावतपरभृतहारीत शुकमधुकरदात्यूहहंसकारण्डवलावकविरु-
il तानि सीत्कृतभूयिष्ठानि विकल्पशः मयुञ्जीत ॥
 
पारावतादीनामिव विरुतानि पारावतविरुतानि । दात्यूहो यस्य
'डाउक' इति प्रसिद्धिः । सीत्कृतभूयिष्ठानीति सीत्कृतबहुलानि । प्रह-
णनकालेऽपि सीत्कृतस्य प्राधान्यादन्तरा प्रयुञ्जीतेत्यर्थः । सीत्कृतं हि
स्वरान्तरसंश्लिष्टं मनोहारि स्यात् । विभागलिष्टगीतवत् । तत्रापि विक
ल्पशो विकल्पं विकल्पम् । एकैकमित्यर्थः ।
 
i
 
:
 
1
 
1
 
७ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१४९
 
तत्र अम्वार्था इति अम्ब मातरित्यादयः । वारणार्था मा तिष्ठेत्या-
दयः । अलमर्था भवतु पर्याप्तमित्येवमादयः । मोक्षणार्थस्त्यज मुश्चेत्या-
दयः । ते ते चार्थयोगादिति । अन्येऽपि पीढार्थयुक्ता मृतासि परित्राय-
खेत्येवमादयः ।
 
प्रहणनसीत्कृतयोर्यत्र देशेऽवस्थायां च प्रयोगस्तदुभयमाह-
उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना मैहारः ॥
 
उत्सद्कोपविष्टाया इति नायकस्योत्सङ्गे । पृष्ठे मुष्टिना प्रहारः ।
नान्यैः । अननुरूपत्वात् ।
 
तत्र सासूयाया इव स्तनितरुदितकूजितानि मॅतीघातच स्यात् ॥
तत्रेति मुष्टिना प्रहारे सासूयाया इव प्रहारमक्षममाणाया इव प्र
योकत्र्यास्तदर्तिद्योतकानि स्तनितकूजितरुदितानि स्युः । तत्महारानुरूप-
त्वात् । प्रतीषातश्चेति । मुष्टिनैव तत्पृष्ठे प्रतीघातः स्यात् ॥
 
युक्तयन्त्रायाः स्तनान्तरेऽपहस्तकेन महरेत् ॥
 
युक्तयन्त्राया उत्तानायाः स्तनान्तरे स्तनयोर्मध्ये अपहस्तकेन प्र-
हरेत् । नान्यैः । अननुरूपत्वात् ।
 
मन्दोपक्रमं वर्धमानरागमा परिसमाप्तेः ॥
 
मन्दोपक्रमं वर्धमानरागमिति क्रियाविशेषणम् । आरम्भे मन्दया
वृत्त्या प्रहारः । ततो यथा रागो वर्धते तथाधिक एवेत्यर्थः । आ परिस-
१. 'विरुतानि च'. २. 'उत्सङ्गमुपविष्टाया: '. ३. 'अभिघात:'. ४. 'सासूयेव'.
५. 'प्रतीघातांथ प्रयोजयेत्'.