This page has not been fully proofread.

कामसूत्रम् । १२ आदितोऽध्यायः]
 
तदिति प्रहणनं घातश्चतुर्विधम् । अपहस्तकादि ग्रहणनस्य चतुर्वि-
घत्वात् । प्रहण्यते वा स्थानमनेनेति ग्रहणनमपहस्तकादीति करणे ल्युट् ।
तत्रापहस्तको हस्तपृष्ठं प्रसृताङ्गुलि । प्रसृतकं वक्ष्यति । मुष्टिः प्रसिद्धः ।
समतलकं सुस्थिरहस्ततलम् । यस्य मुस्तकेति प्रसिद्धिः ।
 
द्वितीयं प्रकरणं प्रहणनान्तर्गतमिति दर्शयन्नाह -
 
-
 
तैदुद्भवं च सीत्कृतम् । तस्यातिरूपत्वात् । तदनेकविधम् ॥
तदुद्भवं चेति । तदुद्भवं प्रहणनादुद्भवतीति । कुत एतदित्याह-त-
स्यातिरूपत्वादिति । सीत्कृतं हि पीडया जन्यमानत्वात्तद्रूपमित्युक्तम् ।
यथा फलहेतु ग्रहणनात्पीडया सीत्कृतं क्रियते तथेहापि पीडाद्योतनार्थं
यच्छब्दितं तत्सीत्कृतमिव सीत्कृतं पूर्वाचार्यैः संज्ञितम् । नतु सीत्कर-
णमेव सीत्कृतम् । यदाह — तदिति । सीत्कृतमनेकविधम् । हिंकारादि-
भेदात् ।
 
विरुतानि चाष्टौ ॥
 
विरुतानि तानि मूलवर्गेण संगृहीतानि सीत्कृतप्रकरण एव ध्वनिस्वभाव-
त्यादुक्तानि । तेषां च रतिजन्यत्वात्महणने चामहणने च मनोज्ञत्वात्प्रयोगः ।
सीत्कृतस्य तु महणन एवेति विशेषः ।
 

 
हिंकारस्तनितकूजितरुदितत्कृतदूत्कृतफूत्कृतानि ॥
 
तत्र हिकारो यः सानुनासिकेन हिशब्देन क्रियते । कण्ठनासिका-
भ्यामूर्ध्वं गच्छन्मधुरो ध्वनिर्निम्पाद्यते । स्तनितं मेघस्येव यद्गम्भीरं ध्व-
नितम् । तच्च कण्ठाद्धंशब्देन निप्पाद्यते । रुदितं प्रतीतम् । तच्च मनो-
हारि स्यात् । सूत्कृतं सूत्करणं च श्वसितापरनाम । कूजितदूत्कृतफूत्कृ-
तानां लक्षणं वक्ष्यति । सतैतान्यव्यक्ताक्षराणि ।
 
अम्वार्था: शब्दा वारणार्या मोक्षणार्थाचालमर्यास्ते ते
चार्ययोगात् ॥
 
१. 'अवस्थानम्'. २. 'स्वरसहस्ततलम्'. ३. 'तद्भव हि सीत्कृतम् । तच्चातिरूप-
त्यादनेकविधम्' ४. 'मूलसर्गेण' ५. 'हिंकारं म्वनित-इत्यादिव्यतपदानि पुस्त-
कान्तरे. ६. 'सीत्कृत - ७. 'मोक्षायाः- चार्यसंप्रयोगात्
 
·