This page has not been fully proofread.

७ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१४७
 
भावैर्वा प्रयोजकैरिति योज्यम् । स्नेहः सक्तिः । रागस्तृप्तिः । बहुमानो
गौरवमिति ॥ चित्ररतानि चतुर्दशं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमहलाभिधानायां विदग्धाहनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्याया साप्रयोगिके
द्वितीयेऽधिकरणे संवेशनप्रकाराचित्ररतानि च पष्ठोऽध्याय. ।
 
सप्तमोऽध्यायः ।
 
एवं संविष्टायां यन्त्रयोगे प्राधान्येन प्रहणनमिति महणनप्रयोगा-
अहणनोद्भवत्वाच्च सीत्कृतस्य तयुक्ता एव सीत्कृतक्रमा इति प्रकरण-
द्वयमन्त्राध्याये । यथा महणनस्य प्रयोग इति सूचनार्थ क्रमग्रहणम् ।
प्रहणनं द्वेषजननं कथं सुरतोपयोगीत्याह-
कलहरूपं सुरतमाचक्षते । विवादात्मकत्वाद्वामशीलत्वाच्च का-
मस्य ॥
 
कलहरूपमिति । कलहसदृशमित्यर्थः । कथमित्याह — विवादात्मक -
त्वादिति । स्त्रीपुंसयोः स्वार्थसिद्धये परस्पराभिभवेन संप्रयुज्यमानत्वाद्वि-
वादात्मकम् । वामशीलत्वाच्चेति । प्रतिकूलस्वभावत्वात्कामस्य । यत्सु-
कुमारक्रमलब्धजन्मनोऽपि मनोभवस्य सुरते निर्दयोपक्रमेणातिवाद्यमा-
नत्वात् । तथा चोक्तम् [किरातार्जुनीये ९/४९] – 'आता नखपदैः
परिरम्भाधुम्बितानि घनदन्त निपातैः । सौकुमार्यगुणसंभृतकीर्तिर्वाम एव
सुरतेष्वपि कामः ॥' अत्रापिशब्दो भिन्नक्रमः । सौकुमार्यगुणसंभृतकी-
ति॑िरपि सुरतेषु वाम एवेति । तेन हेतुफलभेदेनावस्थानात्कामस्य स्वभाव-
द्वयम् । एकः संप्रयोगेच्छालक्षणः । अन्यो विसृष्टिलक्षण इति ।
 
तस्मात्महणनस्थानमङ्गम् । स्कन्धौ शिरः स्तनान्तरं पृष्ठं ज
घनं पार्श्व इति स्थानानि ॥
 
तस्य सुरतस्य । प्रहणनस्थानमङ्गमुपकरणम् । स्थानानीति प्रहणनस्य ।
तच्चतुर्विधम् – अपहस्तकं प्रसृतकं मुष्टिः समतलकमिति ॥
 
१. 'तस्य रागवशात्प्रहणनमद्द्वम् । प्रहणनस्थानानि च असो शिर पृष्टमुर: स्व.
नान्तरं जघनपार्श्वमिति'.