This page has not been fully proofread.

१४६
 
कामसूत्रम् ।
 
११ आदितोऽध्यायः]
 
अघोरतमिति । अपानस्य जघनाधः स्थितत्वात् । तच्च स्त्रीपुंसवि-
पयमेदेन द्विविधम् । तदपि विमार्गमेहनाच्चित्रम् । औपरिष्टकं तु तृती-
याप्रकृतिविषयत्वान्न चित्रम् । स्त्रीपुंसयोश्च चित्रमेव । विमार्गमेहनात् ।
दाक्षिणात्यानामिति देशमवृत्तिं दर्शयति ।
 
पुरुषोपतकानि पुरुषायिते वक्ष्यामः ॥
 
पुरुपोपसृप्तानि तु संवेशनानन्तरत्वादवसरप्राप्तान्यपि पुरुषायिते व
 
क्ष्यामः ।
 
तत्राप्युपयोगित्वाच्चित्रस्य वैर्धनमाह -
भवतश्चात्र श्लोकौ -
 
पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः ।
तैस्तैरुपायश्चित्तज्ञो रतियोगान्विवर्धयेत् ॥
 
पशूनामिति । तत्राधोदशनाः पशवः । ऊर्ध्वाधोदशना मृगाः । प-
तज्ञाः पक्षिणः । तैस्तैरिति । ये ये प्रत्यक्षत उपलब्धाः । विभ्रमैरिति
विचेष्टितैः खरकायगतैः । चित्तज्ञ इति । रुयभिप्रायं बुद्धेत्यर्थः । रति-
योगानिति रत्यर्थान्योगान् । विवर्धयेदपरानपरान्प्रयोजयेदित्यर्थः ।
तद्विवर्धने किं फलमित्याह -
 
तत्सात्म्यादेशसात्म्याच्च तैस्तैर्भावैः प्रयोजितैः ।
स्त्रीणां स्नेहश्च रागश्च बहुमानश्च जायते ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
संवेशनप्रकाराचित्ररतानि च पष्टोऽध्यायः ।
 
आदित एकादृशः ।
 
तत्सात्म्यादिति । नायिकायाः प्रकृतिसात्म्यात् । देशसात्म्यं प्रागु-
तम् । तैस्तैरिति पश्चाढिविभ्रमैः । भावैरिति भावहेतुत्वात्प्रयोजितैः ।
नायिकया प्रयोजिकया तदभिप्रायेण हि नायकेन प्रयुज्यमानत्वात् ।
 
१. 'अपनाधिष्ठितत्वात्'. २. 'वर्धमानमाह'. ३. 'चित्त.'; 'चित्रशः'.