This page has not been fully proofread.

१४४
 
कामसूत्रम् ।
 
११ आदितोऽध्यायः]
 
एकशयने स्त्रीयुग्मस्य युगपत्संप्रयुज्यमानत्वात्
 
। यदैव हि पुरुषोपसृप्ते
 
यदेकस्या रोगापनयनं तदैवापरस्याचुम्बनादिना रागजननम् । ततोऽस्या
रागापनयनं प्रशान्तरागायाश्च रागजननमिति ।
 
वहीभिश्च सह गोग्रॅथिकम् ॥
 
बहीभिश्च मिश्रीकृतसद्भावाभिः सबैकस्य चित्ररतं गोयूथिकम् । वृष-
स्येव गोयूथे स्त्रीसमूहे वर्तनात् ।
 
वारिक्रीडितकं छागलमैणेयमिति तत्कर्मानुकृतियोगात् ॥
वारिक्रीडितकमिति । वार्या गजस्येव करिणीभिः स्त्रीभिः सह रम-
णात् । तथा छगलवदेणवच्च स्त्रीभिः सह च्छागलमैणैर्येमिति । तत्कर्मानु-
कृतियोगादिति । वृषादीनां गवादिषु यत्खरगतं कायगतं च कर्म तदनु-
कृतियोगात्तथा व्यपदिश्यत इत्यर्थः । यथैकस्य द्वाभ्यां बहीभिश्च तथा
द्वाभ्यां नायकाभ्यां बहुभिश्च एकस्या रतं संभवति । तत्र नायकसंघाट-
केनैकस्या वक्ष्यमाणयोगेन काम्यमानत्वात्संघाटकं रतम् । द्वयोर्वा संवि-
ष्टयोः पुरुपायितेन काम्यमानत्वात् । यथोक्तम्- 'ऊँरूव्यत्याससंविष्टप-
रिवर्तितदेहयोः । वृपयोरुँन्नतं चिहं हस्तिन्यां पुरुषायिते ॥' बहुभिश्च
गोयूथिकम् । वृपगोयूथस्येवैकस्यां गवि नायकयूथस्य वर्तनात् । तथा
वारिक्रीडितकमित्यादि तत्कर्मानुकृतियोगात्तदेव गोयूथिकादिवत् ।
देशप्रवृत्तिं दर्शयन्नाह -
 
-
 
ग्रामनारीविपये स्त्रीराज्ये च वौडीके वहवो युवानोऽन्तःपुर-
सघर्माण एकैकस्याः परिग्रहभूताः । तेपामेकर्कशो युगपञ्च यथा-
सात्म्यं यथायोगं च रञ्जयेयुः ॥
 
ग्रामनारीविषय इति । स्त्रीराज्यसमीप एव परतो ग्रामनारीविषयः ।
युवानो व्यवायक्षमाः । अन्तःपुरसधर्माणो रक्षणयोगादस्वतन्त्राः । ए-
कस्या योषितः परिग्रहं गताः । खरवेगत्वान्नैकेन तुष्टिरिति । ते तां कथं
रञ्जयेयुरित्याह – एकैकश युगपञ्चेति । एकैकेन कर्मणा यौगपद्येन चे -
 
१. 'यद्येव'. २. 'रागायतनम्'. ३. 'गोयूयकम्'. ४. 'ऐणेयकम्. ५. 'ऊरूविन्यास-
संविष्ट:'. ६. 'उत्तान'. ७. 'बाहीके बहवो' इति पुस्तकान्तरे नास्ति ८. 'एकश:'.