This page has not been fully proofread.

S
 
६ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१४३
 
भूमौ वा चतुष्पदवदास्थिताया दृपलीलयावस्कन्दनं धेनुकम् ॥
चतुष्पदवदिति सामान्यनिर्देशो वक्ष्यमाणापेक्षः । तत्र धेनुकावचतु-
मिर्गात्रैरधोमुखमवस्थिताया वृषलीलयेति वृषचेष्टया नायकस्यावस्कन्दनं
कटिभागेऽभिपतनम् । धेनुकमिति धेनुकाया इदम् । एतच्चामनुष्यधर्माच-
रणाच्चित्रम् ।
 
तत्र पृष्ठमुरः कर्माणि लभते ॥
 
तत्रेति धेनुके । पृष्ठमुरःकर्माणि लभत इति यानि नायिकोरसि प्रह-
णनच्छेद्योपगूहनादीनि तानि पृष्ठे प्रयुञ्जीतेत्यर्थः ।
 
एतेनैव योगेन शौनमैणेयं छागलं गर्दभाक्रान्तं मार्जारलेलितकं
- व्याघ्रावस्कन्दनं गजोपमदितं राहघृष्टकं तुरगाधिरूढकमिति यत्र
यत्र विशेषो योगोऽपूर्वस्तत्तदुपलक्षयेत् ॥
 
1
 

 
7
 
एतेनेति धेनुकयोगेन शौनादिकमुपलक्षयेदित्यर्थः । श्वादीनां चतुप्पद -
1: त्वात्तद्रतमनेन व्याख्यातमित्यवगच्छेदित्यर्थः । विशेषप्रतिपत्तौ तु कारण-
माह – यत्र यत्रेति । यस्मिन्यस्मिन्येन येन विशेषेण स्वरगतेन कायगतेन
च योगोऽपूर्वी दृश्यते तत्तदुपलक्षयेत् । तत्र शुनीवदवस्थिता श्वलीलया
नायकस्यावस्कन्दनम् । एवं छगलीवच्छगललीलया छागलम् । एणीवदे-
णलीलया ऐणेयम् । 'एण्या ढन्' । व्यापारस्यापि विकारत्वात् । गर्द-
भीवद्र्दमलीलया क्रमणं गर्दभाक्रान्तकम् । मार्जारीवन्मार्जारलीलया च
ललितकं मार्जारललितकम् । व्याघ्रीवद्वयाघ्रलीलयावस्कन्दितं व्याघ्राव-
स्कन्दनम् । गजवद्गज़लील्योपमर्दनं गजोपमर्दितम् । तुरगवत्चुरगलीलया-
घिरोहणं तुरगाधिरूढकम् । अत्र श्वादीनां खरकायगतं चेष्टितं प्रत्यक्षतो-
ऽवगन्तव्यम् । अप्रत्यक्षीकृतस्य प्रयोक्कुमशक्यत्वात् ।
 
मिश्री कृतसद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम् ॥
मिश्रीकृतसद्भावाभ्यामिति । दंपत्योर्हि रतम् । द्वाम्या तु परस्परोप-
जनितविश्वासाभ्यां नायिकाभ्यां सहकनायकस्य रतं चित्रसंघाटकाख्यम् ।
 
G
 
1
 
=
 

 
3
 
१. 'अनेन'. २. 'लुलितकम्'. २. 'अवस्कन्दितम्' ४. 'वराहपृष्टकं' इति मूल-
पुस्तकेषु लभ्यते. ५. 'योऽपूर्व:'. ६. 'तमुपलक्षयेत्'. ७. 'तु सह द्वाभ्यां संघाटकम्