This page has not been fully proofread.

१४२
 
कामसूत्रम् ।
 
११ आदितोऽध्यायः]
 
मीयं वचनम् – 'अप्सु मिथुनसंयोगे नरकः' इति । प्रायश्चित्तविधाने भार्ग-
ववचनम् – 'रेतः सिक्त्वा जले चैव कृच्छ्रं चान्द्रायणं चरेत्' इति । त-
स्मात्स्थलप्रयोज्यमेव चरेत् ॥ संवेशनप्रकारास्त्रयोदशं प्रकरणम् ॥
प्रकरणसंवन्धमाह -
अथ चित्ररतानि ॥
 
अथेति । संवेशनप्रस्तावे तद्विशेषत्वात्स्थलप्रयोज्यानीत्युच्यन्ते ।
तत्रोर्ध्वमधिकृत्याह-
ऊर्ध्वस्थितयोर्यूनोः परस्परापाश्रययोः कुड्यस्तम्भौपाश्रितयोर्वा
स्थितरतम् ॥
 
परस्परापाश्रययोरित्याश्रयान्तराभावाद्वाहुपाशेनान्योन्योपलग्नयोः ।
कुढ्यस्तम्भापाथितयोरिति नायिकायां कुड्ये स्तम्भे वापाश्रितायां द्विती-
योऽपि तदाश्रयादाश्रित इत्युक्तम् । स्थितरतं तयोरूर्ध्वस्थित्या करणत्र-
यमैवोचन्त । यथोक्तम् – 'उत्क्षिप्तप्रमदापादमेकेन नरपाणिना । प्रसार-
णविशेषेण व्यायतं संमुखं स्मृतम् ॥ नारीपादतलन्यासान्नरहस्ततले तु
यत् । कुञ्चितप्रमदाजानुद्वयं द्वितलसंज्ञितम् ॥ नरकूर्परविन्यस्तस्त्रीनिकु
श्चितजानुकम् । जानुकूर्परमुद्दिष्टमिति शुद्धो विधिः स्मृतः ॥
 
कुड्यापाश्रितस्य कण्ठावसक्तवाहुपाशायास्तस्तपञ्जरोपविष्टा-
या ऊरुपाशेन जघनमभिवेष्टयन्त्या कुड्ये चैरणक्रमेण वलन्त्या अ-
वलम्वितकं रतम् ॥
 
कुड्यापाश्रितस्येत्युपलक्षणार्थत्वात्स्तम्भापाश्रितस्य वा नायकस्य क
ण्ठेऽवसक्कोवलमो बाहुपाशो यस्या इति विग्रहः । तद्धस्तपञ्जर इति
नायकस्य हस्ताभ्यां वेणीवन्धेन घटितपञ्जरे समुपविष्टाया ऊरुपाशेन ज-
धनं नायकस्य वेष्टयन्त्याः । चरणक्रमेण वलन्त्या इति कुड्ये स्तम्भे वा
पुनः पुनश्चरणविक्षेपेण कटिं प्रेसयन्त्याः । अवलम्वितकम् । नायकक-
ण्ठान्नायिकाया अवलम्बनात् । एतदुभयं वैहासिकत्वाञ्चित्रम् ।
 
१. 'परस्परोपाश्रितयोः'; 'परस्परोपाधययो.. २. 'आथययोर्वा'. ३. 'अवोचत'.
४. 'भुजपञ्जरो-'. ५. 'चरणपराक्रमेण'. ६. 'नायकं नायिकायाः .