This page has not been fully proofread.

C
 
1
 
६ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१४१
 
ध्यान्नायकः । कार्कटकमिति कर्कटस्येव कर्म । यदग्रचरणौ तथा तिष्ठतः ।
ऊर्ध्वावरू व्यत्यस्येदिति पीडितकम् ॥
 
ऊर्ध्वावरू व्यत्यस्पेदिति उत्तानं बामं दक्षिणतो नयेत्, दक्षिणं वा-
से मतः । पीडितकं जघनपीडनात् ।
 
जहाव्यत्यासेन पद्मासनवत् ॥
 
जवाव्यत्यासेनेति । उत्ताना नायिका दक्षिणपादं वामे खोरुमूले नि-
दध्यात् । वामं च दक्षिणे । पद्मासनमिति प्रतीतम् ।
 
पृष्ठं परिष्वजमानायाः पराखेण परावृत्तकमाभ्यासिकम् ॥
पृष्ठमिति । यन्त्रमविश्लिष्य पूर्वकायेण परावृत्तस्य नायकस्य पृष्ठमेव
गूहमानायाः परावृत्तकम् । परामुखेण नायकेन संप्रयोगात् । उपलक्षणं
है चैतत् । पृष्ठमुपगूहमानस्य पराङ्मुख्या परावृत्तकम् । आभ्यासिकम् । स-
हसा कर्तुमशक्यत्वात् । उभयकायं परिवृत्य संविष्टायाः पृष्ठमुपगूहमानस्य
परामुख्या परावृत्तकमाभ्यासिकमर्थोक्तम् ।
 
एते संवेशनप्रकारा न चित्राः । लोके हि स्थले पृष्ठतः पार्श्वतो वा
शयनं प्रतीतम् । ततोऽन्यच्चित्रम् । तदेतैरुपलक्षयेदिति दर्शयन्नाह -
जले च संविष्टोपविष्टस्थितात्मकांश्चित्रान्योगानुपलक्षयेत् । तथा
सुकरत्वादिति सुवर्णनाभः ॥
 

 
जले चेति । चकारात्स्थले च। तत्राप्सु क्रीडायां कूले शिरो निधाय
संविष्टयोः संवेशनात्मकोऽपि यः स्थलाभावाच्चित्रयोगस्तं संपुटेन चोपल-
। क्षयेत् । उपविष्टस्य नायकस्योपवेशनात्मकस्तं सर्वैरेव प्रकारैः । ऊर्ध्व-
स्थितायाः स्थितात्मकः । स्थलशयनाभावात् । चित्रो योगस्तं शूलाचि -
तके । तथा सुकरत्वादिति तैः प्रकारैः संयोगस्याप्सु सौकर्यात् ।
 
-445
 
i 15
 
i
 
f
 
वार्ते तु तत् । शिष्टैरंपस्मृतत्वादिति वात्स्यायनः ॥
 
वार्ते त्विति । तथा सुकरत्वादिति सत्यम् । वार्त तु तत् । असारमि-
त्यर्थः । शिष्टैरपस्मृतत्वादिति । स्मृतिकारैर्निषिद्धत्वादित्यर्थः । तथा च गौत-
१. 'स्थूल- १. २. 'अपस्मृतत्वाच्छिष्टे.'.