This page has not been fully proofread.

१४०
 
कामसूत्रम् ।
 
११ आदितोऽध्यायः]
 
·
 
नायकोऽपि जानूत्तरेण द्वाभ्यामाश्लिष्योपसर्पेत् । तद्भुमकमिति । ऊर्वोरू-
ध्वमनिःसृतत्वात् ।
 
चरणार्ध्वं नायकोऽस्या धारयेदिति जृम्भितकम् ॥
चरणावूर्ध्वमिति । नायिकाजानुसंधी स्कन्धयोर्विन्यस्य चरणावूर्ध्वं ना-
यकेन धारितौ भवतः । इति जृम्भितकम् ।
 
तत्कुञ्चिताबुत्पीडितकम् ॥
 
तत्कुञ्चितौ धारयेदित्येव । नायकोरसि चरणौ निदध्यात् । नायकोऽपि
बाहुपाशेन नायिकाया ग्रीवामावेष्टयोपसर्पेत् । एवं चरणावूर्ध्वं संकुचितौ
नाधस्तादुरसा धारितौ स्याताम् । द्वयोश्योरसि पीडनात्पीडितकम् ।
तदेकस्मिन्प्रसारितेऽर्धपीडितकम् ॥
 
तदिति पीडितकम् । एकसिंश्चरणे प्रसारिते व्यत्यासेनेति द्वितीय-
मप्यर्धपीडितकम् । अर्धपीडनात् ।
 
नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर्व्यत्यासे-
न वेणुदारितकम् ॥
 
नायकस्यांसे स्कन्धे वामश्चरणः स्थितः । क्षणादनु तदधरतात्प्रसारित
इत्येकम् । पुनर्व्यत्यासेन दक्षिणस्कन्धे वामः प्रसारित इति द्वितीयम् ।
वेणुदारितकमिति वंशस्येव दारणं पाटनम् ।
 
एकः शिरेस उपरि गच्छेद्वितीयः प्रसारित इति शूलाचितक-
माभ्यासिकम् ॥
 
एक इति वामो दक्षिणो वा चरणः । शिरस इति नायिकायाः । द्वि-
तीय इति दक्षिणो वामो वाघः । एवं द्विविधं शूलाचितकम् । शूल इवा-
रोपणाच्छूलभिन्नवच्छरीरस्य लक्ष्यमाणत्वात् । आभ्यासिकम् । अन्यथा
कथमुपरितनजह्वाकाण्डः स्थगितकः स्यात् ।
 
संकुचितौ स्ववस्तिदेशे निदध्यादिति कार्कटकम् ॥
संकुचितौ नायिकाचरणौ जानुसंकोचात्स्ववस्तिदेशे स्वनाभिमूले निद-
१. 'ऊच'. २. 'जृम्मकम्'. ३. 'स्कुषितमुत्पीडितकम् ४. 'विन्यासेन दक्षि-
णात्स्कन्चो वामः'. ५. 'शिरसि ६. 'द्वितीयकः'.