2023-02-19 13:59:08 by ambuda-bot
This page has not been fully proofread.
६ अध्यायः]
२ सांप्रयोगिकमधिकरणम् ।
आत्मनो वामेन पार्श्वणासनपेरिणता शयनीयमधिशयीतेत्यर्थः । सार्वत्रि-
कमिति । सर्वास्त्रेव मृग्यादिनायिकास्वयं निद्राकाले भवति । अविरो-
धात् । रतकाले तु तद्विपरीतो हस्तिन्याः । येन संकोचहेतुत्वात् । वाम-
हस्तेन तत्र गुह्यस्पर्शनादौ शिष्टानुज्ञातत्वात् ।
तु
संपुटकमयुक्तयन्त्रेणैव दृढमूरू पीडयेदिति पीडितकम् ॥
संपुटकप्रयुक्तयन्त्रेणेति । उत्तानसंपुढे पार्श्वसंपुढे वा । तत्प्रयुक्तयन्त्रं
तदेव विश्लिष्येत । नायिकाया दृढखरूपत्वात् । पीडयेदिति पीडनात्सं-
पुटकमेव पीडितमिति संवृताकारं भवतीति ।
ऊरू व्यत्यस्येदिति वेष्टितकम् ॥
संपुटकयन्त्रेणेत्यर्थः । य उत्तानसंपुटके वामदक्षिणतो वा यद्दक्षिणवाम
इति तदेव परम्परोरुबेष्टनाज्जघनं पूर्वस्मात्संवृततरं भवति । तत्र भावन
सिद्धत्वात् ।
वडवेव निष्ठुरमवगृह्णीयादिति वाडवकमाभ्यासिकम् ॥
निष्ठुरं निश्चलम् । अवगृह्णीयात् संवाघौष्ठपुटेन साघनमित्यर्थः ।
वाडवकं वडवाया इव । एतेन नीचतररतस्यापि परिग्रहः । इदं कर्मा-
भ्यासिकम् । सहसा प्रयोगे प्रयोक्तमशक्यत्वात् ।
तदान्ध्रीषु प्रायेण । इति संवेशनप्रकारा वाभ्रवीयाः ॥
आन्ध्रीषु प्रायेण दृश्यते । तासां यत्नपरत्वात् । तस्याभ्यासोपायश्च
संप्रदायनिरूप्यः । ततोऽभ्यासात्तन्निरपेक्षग्रहणमिति । बात्रवीया बा
अव्येण प्रोक्ताः सेतैव संवेशनप्रकाराः ।
अनेन विकल्पवर्गस्य न्यूनतामाह -
-
सौवर्णनाभास्तु–उभावप्यूरू ऊर्ध्वाविति तद्भुनकम् ॥
सौवर्णनाभास्तु हस्तिन्या इति वर्तते । सुवर्णनामेन प्रोक्ताः । अनेन
द्वैविध्यमाह । उत्ताना नायिका द्वावप्यूरू संश्लिष्टावूर्ध्वावेवावस्थापयेत् ।
१. 'परिणताय'. २. 'शिष्टानुज्ञातः स्यात्'. ३. 'सपुटकयन्त्रेत्येव'. ४. 'अभावेन',
५. 'सतैते'. ६. 'सुवर्णनाभस्तु - आभुमकम्'; 'सोवर्णनाभा अप्यूरू-उद्धमक्म्'.