This page has not been fully proofread.

कामसूत्रम् ।
 
१ आदितोऽध्यायः ]
 
मेवाग्र्यमिति । श्रुतिरपि सर्वजनविषयेति तामेव हृदिस्थामैनुसंचिन्त्य सा-
धारणभूतं स्मार्तशास्त्रं प्रकर्षेणोवाच ।
 
तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक्चकार ॥
तस्येति । प्रजापतिप्रोक्तस्यैकदेशास्त्रयः, तत्र यत्र धर्मोऽधिकृतस्त-
न्मनुः पृथक्चकार । यत्रार्थस्तगृहस्पतिः । यत्र कामस्तन्नन्दीति । खायंभुव
इति वैवखतनिवृत्त्यर्थम् । धर्माधिकारिकमिति । धर्मप्रस्तावो यत्रास्ति तत् ।
धर्मशास्त्रमित्यर्थः ।
 
बृहस्पतिरर्थाधिकारिकम् ॥
 
अर्थाधिकारिकमिति । अर्थशास्त्रं चकारेत्यर्थः । द्वयोरप्यनयोरप्रस्तुत -
स्वान्नाध्यायसंख्या दर्शिता ।
 
महादेवानुचरथ नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच ॥
महादेवेति । महादेवमनुचरति यः । नान्योऽयं नन्दिनामा कश्चित् ।
तथा हि श्रूयते – दिव्यं वर्षसहस्रमुमया सह सुरतसुखमनुभवति' महादेवे
वासगृहद्वारगतो नन्दी कामसूत्रं प्रोवाचेति । अत्राध्यायसंख्यानमुक्तम् ।
शास्त्रस्य प्रस्तुतत्वात् ।
 
-
 
तदेव तु पञ्चभिरध्यायशतैरौद्दालकि: श्वेतकेतुः संचिक्षेप ।
तदेव त्विति । नन्दिप्रोक्तम् । तस्यैकदेशम् । तुशब्दो विशेषणार्थः ।
औद्दालकिरित्युद्दालकस्यापत्यं यः श्वेतकेतुः । तथाहि परदाराभिगमनं
लोके प्रागासीत् । यथोच्यते – 'पेक्वान्नमिव राजेन्द्र सर्वसाधारणाः स्त्रियः ।
तस्मातासु न कुप्येत न रज्येत रमेत च ॥" इति । इयमौद्दालकेन व्य-
वस्था निर्वर्तिता । तथा चोक्तम्-'मद्यपानान्निवृत्तिश्च ब्राह्मणानां गुरोः
सुतात् । परस्त्रीभ्यश्च लोकानामृषेरौद्दालकादपि ॥ ततः पितुरनुज्ञानाद्व-
म्यागम्यव्यवस्थया । श्वेतुकेतुस्तपोनिष्ठः सुखं शास्त्रं निबद्धवान् ॥ इति ।
तदेव तु पुनरध्यर्धेनाध्यायशतेन साधारणसांप्रयोगिककन्यासं-
१. 'अश्यमिति दर्शयितुम्' पा०. २. 'अनुस्मृत्य' पा० ३. 'तस्यैकदेश खायभुवो
मनु: ' पा०. ४. 'पक्कान्न मिच' इत्यारभ्य 'तथा चोकम्' इत्यन्त पुस्तकान्तरे नास्ति: