This page has not been fully proofread.

१३८
 
कामसूत्रम् ।
 
११ आदितोऽध्यायः]
 
एतेन नीचतररतेऽपि संपुटकं पीडितकं वेष्टितकं वाडवकमिति
हस्तिन्याः ॥
 
नीचतररतेऽपीति । शशमपि गृह्णीयादित्यर्थः । तस्य संवृतहेतुत्वाभा-
वेन च प्रतिगृहीते पीडितकादि प्रयोक्तव्यम् । तेनाप्यपहासयन्तीवेति
सिद्धम् । वडवापि संपुटकेन शशं प्रतिगृह्णीयादित्यर्थोक्तम् । पूर्वमतिदि-
धृत्वात् ।
 
संपुटकयुक्तिमाह-
--
 
ऋजुप्रसारितावुभावप्युभयोचरणाविति संपुटः ॥
ऋज्विति प्रगुणं प्रसारितौ यथा यन्त्रयोगः स्यात् । उभयोरिति
स्त्रीपुंसयोः । संपुट इति । संपुट इवोभयोरेकत्र संश्लेषात् ।
 
से द्विविधः–पार्श्वसंपुट उत्तानसंपुटचें । तथा कर्मयोगात् ।
पार्श्वेण तु शयानो दक्षिणेन नारीमधिशयीतेति सार्वत्रिकमेतत् ॥
 
तथा कर्मयोगादिति । तेन प्रकारेण रतानुष्ठानयोगादित्यर्थः । तंत्र
पार्श्वसंविष्टयोः पार्श्वसंपुटः । उत्तानसंपुटयोरुपर्युपरिसंविष्टस्यैकोऽपि
विपर्ययेण द्वितीय उत्तानसंपुटकोऽन्यतरेण व्यपदिश्यते । कथमन्त्र
यन्त्रयोग इति नाशङ्कनीयम् । सुकरत्वात् । पार्श्वसंपुटके तु नायकस्य
कटिरुपधानिकायां तिष्ठेत् नायिकायाश्च शयनीये । अन्यथा शयनीय-
स्थयोर्द्वयोः कटिभागयोर्विश्लेषाद्यन्त्रं कदाचिद्विघटेत । कात्यायनस्तु संपु-
टकमन्यथा ग्राह– 'आकुञ्चितस्ता नार्यः (?) संक्रान्तनृकटिः पुनः ।
त्र्यंसस्थनरयोगात्तु संमुखः संपुटः स्मृतः ॥' अत्राह—संहतोरुत्वाज्जधना-
वहासो न संभवति । अतो न नीचरते हस्तिन्याः । समरते तु स्यात् ।
यथास्थितोरुकैतयास्य लौकिकत्वात् । पार्श्वेण तु शयान इति निद्रां
गन्तुम् । दक्षिणेन नारीमिति एनपायोगे द्वितीया । नार्या दक्षिणे भागे
 
१. 'नीचतररतस्यापि'. २. 'संकोचयुक्तिमाह'. ३. 'संपुटकमिति हस्तिन्या ऋजुत्र-
सारितो'. ४. 'सच'. ५. 'चेति'. ६. 'योगाच'. ७. 'सार्वत्रिकसंपुट:'. ८. 'तत्'.
९. 'द्वितीय इति द्वितीय' १०. 'अस्तस्थनर' ११. 'कृतया लौकिक: स्यात्.