This page has not been fully proofread.

६ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
पादपार्श्वे च स्फिजौ बाह्यतः । एवं जघनस्योर्ध्व विवृतत्वादुत्फुल्लमिवो-
फुल्लकम् ।
 
तत्रापसारं दद्यात् ॥
 
तत्रेत्युत्फुल्लके। अपसारं दद्यादिति । नायकेन यन्त्रेण संयोज्यमाना
कटिभागेनापसरेत् । नायको वा शनैः शनैः संयोज्यापसरेत् । याव-
त्सा संवाधता न भवति । सहसोपसृप्ताया हि पीडा । नायकस्य च
लिङ्गचर्मोद्वर्तनम् । यदवपाटिकेति वैद्यैरुच्यते ।
 
अनीचे सक्थिनी तिर्यगवसज्य प्रतीच्छेदिति विजृम्भितकम् ॥
अनीचे इति । सक्थिनी ऊरू तिर्यगवसज्येति तिरश्चीने कृत्वा ।
तत्रापि शय्यायां पादयोरुत्तानविन्यासादपि तिरब्धीने भवतः । कि तु
नीचैरित्याह–अनीचेति । प्रतीच्छेन्नायकः । जृम्भितमिव सममनुकार्यम् ।
पार्श्वयोः सममूरू विन्यस्य पार्श्वयोर्जानुनी निदध्यादित्यभ्या-
सयोगादिन्द्राणी ॥
 
विन्यस्य पार्श्वयोरिति । जङ्घासंश्लिष्टावूरू पार्श्वयोर्जानुनी निदध्यात् ।
कक्षाबहिर्भागयोरित्यर्थः । एवं च बाहुमूलाभ्यामवष्टभ्य गृहीतत्वात्पूर्व-
स्माद्विवृततरं भवति । अभ्यासयोगादिति । सहसा निष्पादयितुमशक्य-
त्वादस्याः । इन्द्राणीति शचीप्रोक्तत्वादन्वर्थसंज्ञया व्यपदेशः । तत्राप्य -
पसारं दयादिति ।
 
१३७
 
तैयोच्चतररतस्यापि परिग्रहः ॥
 
तयेतीन्द्राण्या । उच्चतररतस्यापीति । न केवलमिन्द्राण्यामुं नृपं प्रति-
गृह्णीयात्, अश्वमपि । तस्या धृतरागत्वाद्विवृतरागहेतुत्वात् । तत उच्चत-
ररतेऽति विशालयन्तीवेति सिद्धं भवति । तदुत्फुल्लकविजृम्भितकाभ्यां तु
वृषमेव वडवापि ताभ्यामेवाश्वमित्यर्थोक्तम् । पूर्वमतिदिष्टत्वात् ।
संपुटेन मैतिग्रहो नीचरते ॥
 
संपुटेनेति । हस्तिनी संपुटेन वक्ष्यमाणलक्षणेन वृषं प्रतिगृह्णीयादित्यर्थः ।
 
१. 'तिर्यगवष्टभ्य'. २. 'योग्यतया'; 'एतया'. ३. 'प्रतिगृहीयात् '.
 
का० १८