This page has not been fully proofread.

कामसूत्रम् ।
 
११ आदितोऽध्यायः]
 
साप्युञ्चरतेनाश्वेन प्रयोक्ष्यमाणा विशालयन्तीव शशेनावह्रासयन्तीव ।
न्याय्यो यत्र वृषेण तत्र समपृष्ठं संविशेदिति । मृगीहस्तिनीभ्यां व्या-
ख्याता । यथा चोक्तम्–'विवृतोरुकमुच्चैस्तु नीचैः स्यात्संवृतोरुकम् ।
यथा स्थितोरुकं चापि समपृष्ठं समे रते ॥"
 
संवेशनस्य प्रतिग्रहफलत्वात्प्रतिग्रहमाह -
तत्र जघनेन नायकं प्रतिगृह्णीयात् ॥
 
तत्रेति । संकोचनप्रसारणभेदात्समपृष्ठाच्च त्रिविधे संवेशने जघनेन
खेन प्रतिगृह्णीयात् । लथलिङ्गं प्रतीच्छेदित्यर्थः ।
 
अपद्रव्याणि च सविशेषं नीचरते ॥
 
अपद्रव्याणि चेति । वृषेण शशेन वा प्रयुज्यमानानि कृत्रिमसाध-
नानि वडवा हस्तिनी वा प्रतिगृह्णीयादित्येव । तत्रापि विशेषः———यदि
समरतं साधनसदृशं कृत्रिमं तदा नावहासयन्ती विशालयन्तीव । ततो-
ऽप्यधिकं चेद्विशालयन्तीव प्रतिगृह्णीयादित्यर्थः । नीचरत इति । उच्चर-
तेऽपद्रव्यप्रयोगासंभवात् ।
 
यथा युक्त्या विवृतं संवृतं वा जघनं स्यात्तद्यथाक्रममाह -
उत्फुल्लकं विजृम्भितकमिन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण ॥
उत्फुल्लकमिति । समरते लौकिकी युक्तिरुक्ता न शास्त्रीया । लोके
हि प्राम्यनागरभेदादुत्तानायाः संवेशनद्वयं प्रतीतं पार्श्वे च संपुटकम् ।
तन्त्रितयमपि समपृष्ठं घटयतीति । येथा चोक्तम्- ग्राम्यमासीनकान्तो-
रुविन्यस्तप्रमदोरुकम् । नागरं च नरोरुस्थं स्त्रीपादाम्भोरुहद्वयम् ॥ त्रित-
यमिति व्यवयवं संवेशनम् । प्रायेणेत्येकान्तेन ।
 
शिरो विनिपात्योर्ध्वं जघनमुत्फुल्लकम् ॥
 
शिर इति । जघनशिरोमागमधस्ताच्छय्यायां विनिपात्योत्तानमूर्ध्न न-
घनं कुर्यादिति भेढमेवं रूपं पश्चाद्भागेनेत्यर्थः । यद्यपि तत्वतो भवति
तथाप्यतिविस्तारणार्थमुपर्युपरि स्थितहस्तपृष्ठे त्रिकभागं विनिवेशयेत् ।
१. 'जघने'. २. 'यथोक्तम्'. ३. 'कहोदरम्.