This page has not been fully proofread.

६ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१३५
 
तदिति तस्मात् । संवत्सरशतेन पुरुषायुःप्रमाणेनेत्यर्थः प्रीतिन परि-
हीयते स्थिरीभवतीत्यर्थः । भोजनमपि होकरसमुपसेव्यमानं विरागं जन-
यति देश्या उपचारा द्वादशं प्रकरणम् ।
 
इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिघानायां विदग्धाङ्गनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रमाष्याया साप्रयोगिके
द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्या उपचाराथ पञ्चमोऽध्यायः ।
 
पष्टोऽध्यायः ।
 
एवं देशप्रकृतिसात्म्यापेक्षया आलिङ्गनाद्युपचाराज्जातरागयोः संवेश-
नयोग्यत्वात्संवेशनप्रकाराः, तथा संवेशनविशेषत्वाच्चित्ररतानीति प्रकरण-
द्वयमत्राध्याये ।
यदाह-
रागकाले विशालयन्त्येव जघनं मृगी संविशेदुच्चरते ॥
रागकाल इति । रागकालो यत्र स्तब्धलिङ्गता । साधनसंबाधयोः सं
योगार्थं संवेशनम् । तच्च तदानीमेव युज्यते । तेन प्रमाणतो रतमधि-
कृत्य संबेशनप्रकाराः । उपलक्षणं चैतत् । उच्चतररते चाश्वेन संप्रयो-
क्ष्यमाणेति [जघनं] विशालयन्तीव संविशेत् । अत्रातिदेशं वक्ष्यति ।
अवहासयन्तीव हस्तिनी नीचरते ॥
 
अवहासयन्तीवेति । ऊर्वोः संश्लेषणात्संकोचयन्तीव । यथा संवृतमुखं
भवति । हस्तिनी नीचरते वृषेण संप्रयोक्ष्यमाणा संविशेदित्येव । तस्या
बहलरन्ध्रत्वात् । शशेन नीचतररतेऽवहासयन्तीति । अत्राप्यतिदेशं
वक्ष्यति ।
 
न्याय्यो यत्र योगस्तत्र समपृष्ठम् ॥
 
यत्र यस्मिन्रते न्यायादनपेतो योगः । स्वभावसिद्धत्वात् । समरत
इत्यर्थः । तत्र समपृष्ठं संविशेदित्येव क्रियाविशेषणमेतत् । संकोचनप्रसा-
रणाभावात्समं जघनपृष्ठं यस्यां क्रियायामिति ।
 
आभ्यां वडवा व्याख्याता ॥
 
१. 'प्रकारात्'. २. 'प्रयोगस्वत्र समपृष्टकम् .