This page has not been fully proofread.

१० आदितोऽध्यायः ]
 
विधानान्तरमाह -
 
उन्नम्य कैण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम् ।
मणिमालां प्रयुञ्जीत यच्चान्यदैपि लक्षितम् ॥
उन्नम्येति । संश्रिता वक्षसः स्थलीमेकेन बाहुपाशेनावेष्टच कचमु-
नम्य द्वितीयेन हस्तेन चिबुकं गृहीत्वा मणिमालां प्रयुञ्जीत । गले
स्वस्थाने कॅण्ठिकामिवाह । यच्चान्यदपि लक्षितं दशनच्छेद्यं मनोहारि ।
अत्रापि वैचित्र्यापेक्षेति सूचयति ।
प्रकाशे चेष्टितमाह -
 
१३४
 
कामसूत्रम् ।
 
दिवापि जनसंवाधे नायकेन प्रदर्शितम् ।
उद्दिश्य स्वकृतं चिह्नं हसेदन्यैरलक्षिता ॥
दिवापीति रात्रौ नायिकया यत्कृतं चिह्नं तद्दिवापि नायकेन कथ-
मस्मिञ्जनसमूहे प्रच्छाद्यमिति भावमाकारं ग्राहयेत्प्रदर्शयेत् । उद्दिश्य
स्वयं कृतं चिह्नमिति दुष्टस्यायमेव निग्रहो युक्त इति भावं ग्राहयन्ती
हसेत् । अन्यैरलक्षितेति । नायकेनाप्यलक्षितेति योज्यम् । अन्यथा द्वा-
वप्यनागरको जनसंवाघे स्यातामिति ।
 
सापि तत्कृतानि चिह्नानि प्रदर्शयेदित्याह-
विकूणयन्तीव मुखं कुत्सयन्तीव नायकम् ।
स्वगात्रस्थानि चिह्नानि सासूयेव प्रदर्शयेत् ॥
विकूणयन्तीव व्यर्थचुम्वनाथै संकोचयन्तीव संकोचस्येष्टत्यात् । कु-
त्यन्तीव नयनविकारैधि विदग्धमिति । 'तर्जयन्तीव' इति पाठा-
न्तरम् । फलमस्य प्राप्स्यसीति तर्जनम् । सासूयेवाक्षममाणेव ।
परस्परानुकूल्येन तदेवं लज्जमानयोः ।
संवत्सरशतेनापि प्रीतिर्न परिहीयते ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
दशनच्छेद्यविधयो देश्याश्चोपचाराः पञ्चमोऽध्यायः ।
आदितो दशमः ।
 
१. 'कप्ठम्'. २. 'स्थलम्'. ३. 'अतिलक्षितम्' ४. 'कण्टिकायाम्'. ५. 'व्यथाम्'.