This page has not been fully proofread.

५ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१३३
 
एवं देशसात्म्यात्परस्परमुपचितौ छेद्यकलहोऽपि स्यात् । तत्र प्रीति-
स्थिरीकरणार्थं चेष्टितमुच्यते । तद्विविघम्-रहसि प्रकाशे च सेवने ।
तत्र पूर्वमधिकृत्याह-
वार्यमाणञ्च पुरुषो यत्कुर्यात्तदनु क्षतम् ।
 
अमृष्यमाणत द्विगुणं तदेव प्रतियोजयेत् ॥
वार्यमाण इति । आनिकेन वाचिकेन वामिनयेन निषेध्यमानः प्रकृ
तिसात्म्यात् । यदा त्वनिषेध्यमानस्तदा कृते प्रतिकृतं कुर्यात् इत्ययमेव
पक्षः । न द्विगुणयोजनम् । कलहामावात् । द्यूतकलहेऽपि द्यूतमधिकृ-
त्योक्तम् । इह सात्म्यं विशेषः । अमृष्यमाणेत्यक्षममाणा द्विगुणं प्रयु-
क्कादधिकछेद्यं यत्तदेव । न विजातीयम् । प्रयोजयेत्प्रतीपं योजयेत् ।
कस्य किं द्विगुणमित्याह -
 
विन्दोः प्रतिक्रिया माला मालायाचाभ्रखण्डकम् ।
इति क्रोषादिवाविष्टा कलहान्प्रतियोजयेत् ॥
बिन्दोरिति । मालेति बिन्दुमाला । तस्या अप्यम्रखण्डकं प्रतीकारः ।
इत्येवं द्विगुणं प्रतीकारं बुद्ध्वा योजयेत्कलहं प्रति । तथाश्रखण्डस्य व-
राहचर्वितकम् । गूढस्योच्छूनकम् । तस्य प्रवालमणिः । तस्यापि मणि-
माला । तस्यापि बिन्दुरिति । तत्र पूर्वाणि चत्वारि त्वचि स्थितानि ।
शेषाणि त्वचमतिक्रम्य । क्रोधादिवाविष्टेति । कृतककोपेन दर्शितावस्था-
न्तरा । कलहान्तरं कृतककलहदर्शनार्थम् ।
 
सकचग्रहमुन्नम्य मुखं तस्य ततः पिवेत् ।
निलीयेत दशेचैव तत्र तत्र मदेरिता ॥
 
मुखं पिबेदघरपानाख्येन चुम्बनेन । तत्र चायं विदग्धक्रमः । सकच-
ग्रहमुन्नम्येति । पाणिनैकेन कचेषु द्वितीयेन चिबुके परिगृह्योत्तानीकृत्ये-
त्यर्थः । निलीयेत दृढं संलिष्येत दशेच्च । तत्र तत्र च्छेद्यस्थाने । यत्र
यत्र वा तेन देष्टा । मदेरिता पानमदप्रेरिता । तदेव सुचेष्टं सुखयति ।
 
१. 'च नखक्षतम्. २. 'निषेव्यमाणः'. ३. 'गूढकस्य'. ४. 'निमीडयेत्'.
५. 'दृष्टा'.