This page has not been fully proofread.

कामसूत्रम् ।
 
१० आदितोऽध्यायः ]
 
देशसात्म्यात्मकृतिसात्म्यं वलीय इति सुवर्णनाभः । न तत्र
देश्या उपचाराः ॥
प्रकृतिसात्म्यमिति । प्रकृतिः स्वभावः तत्सात्म्यमेव मन्यते । देशम-
कृतिसात्म्येनैवोपचाराः कर्तव्याः । उभयसंनिपाते विरोधे सति देशसा-
त्म्यात्प्रकृतिसात्म्यं बलीय इति । अन्तरङ्गत्वात् । न तत्र देश्या उप-
चाराः सुवर्णनाभस्य । आचार्याणां तु प्रकृतिसात्म्यपरिहारेणैव देशसा-
त्म्येनोपचरेदिति मतम् । शास्त्रकृतोऽपि सुवर्णनाभमतमेवाभिमतम् । अ
प्रतिषिद्धत्वात् ।
 
१३२
 
कालयोगाच
 
देशाद्देशान्तरमुपचारवेषलीला चानुगच्छन्ति । तच्च
 
विद्यात् ॥
 
काल्योगाब्वेति । कालान्तरेण देशात्तथा तत्रत्यानुपचारान्वेषं नेपथ्यं
लीलां चेष्टाविशेषमनुगच्छन्ति । तच्चेति देशान्तराद्यनुगमनं तत्त्वतो
विद्यात् । अन्यथा उपचारादिदर्शनेन तद्देशजेयमित्युपचर्यमाणा विगुणा
स्यात् । तस्मात्संचारिगुणत्यागेन स्थायिदेशप्रचारैरेवावधार्य प्रकृतिसा-
त्म्येनोपचरेत् ।
 
उपग्रहनादिषु च रागवर्धनं पूर्वे पूर्व विचित्रगुत्तरमुत्तरं च ॥
उपगूहनादिष्विति । आलिङ्गनचुम्बननखदशनच्छेद्यप्रहणनसीत्कृते-
पु षट्सु बहिःकर्मसु पूर्वं पूर्व रागवर्धनम् । तत्र सीत्कृताच्छुतिरमणीया
त्प्रहणनं स्पर्शकरं रागवर्धनम् । ततो दशनच्छेद्यमतिस्पर्शकरम् । ततो-
ऽपि परिहारेण नखच्छेद्यम् । तस्मादपि चुम्बनं मृदुस्पर्शकरम् । ततोऽपि
सर्वाङ्गिकमालिङ्गनमतिस्पर्शकारीति । विचित्रमुत्तरोत्तरमिति । तत्रोप-
गूहनात्स्थूलकर्मणश्चुम्बनं कुटिलकर्म विचित्रम् । ततो नखविलेख -
नम् । तस्मादपि दशनच्छेद्यमतिकुटिलम् । ततोऽपि प्रहणनम् । यतस्त-
द्धस्तलाघवान्मन्दकर्मपरिहारेण रागं दीपयति । ततोऽपि सीत्कृतम् । यदुप-
देशेऽपि दुर्ब्रहमिति ।
 
१. 'तथा तथा'. २. 'द्विगुण.', 'द्विगुणोक्तिगुणा'. ३. 'प्रभावैः'. ४. 'आलिङ्गनादिपु.