This page has not been fully proofread.

५ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम्
 

 
१३१
 
महाराष्ट्रिका इति । नर्मदाकर्णाटविषययोर्मध्ये महाराष्ट्रविषयः । तत्र
भवाः । सकलायाश्चतुःषष्टेः पाञ्चालिक्या गीताद्यायाश्च प्रयोगेण राग-
स्तासां भवतीति तत्प्रयोगरागिण्यः । अहीलं ग्राम्यं परुषं च निष्ठुरं
वाक्यं वदन्ति सहन्ते चेति तत्प्रियाः । शयने चेति संप्रयोगे । रभसोप-
क्रमा इति धृष्टत्वोद्भटत्वरभसेन पुरुषममियुजत इत्यर्थः ।
तथाविधा एव रहसि प्रकाशन्ते नागरिकाः ॥
 
नागरिका इति पाटलिपुत्रिकाः । तथाविधा एवेति तेनैव प्रकारेण स-
कलचतुःषष्टिप्रयोगतयाश्लीलपरुषवाक्यप्रियतया च रहसि विजने प्रका-
शन्ते । सत्रपत्वात् । महाराष्ट्रिकास्तु प्रसह्य रहसि चेति विशेषः ।
शयने च रमसोपक्रमत्वं तुल्यम् ।
 
मृद्यमानाश्चाभियोगान्मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः ॥
 
द्रविड्य इति । कर्णाटविषयाइक्षिणेन द्रविडविषयः । तत्र भवाः । अ-
भियोगादिति । यन्त्रयोगात्मागालिङ्गनाद्यमियोगात्प्रभृति पुरुपेण मृद्य-
माना बहिरन्तश्च शिथिलीक्रियमाणावयवा मन्दं मन्दं प्रसिञ्चन्त इति
स्तोकं स्तोकं मूर्छनासुखवर्जितं क्षरणं कार्यत इति । अमदत्वात् । ततो-
ऽन्ते समाक्षिप्तिवेगा विसृष्टिः । तेनैकस्मिन्नेव रते निवृत्तरागा भवन्तीति
दर्शयति ।
 
मध्यमवेगा: सर्वेसहाः स्वाङ्गमच्छादिन्यः पराङ्गहासिन्यः कुत्सि-
ताश्लीलपरुपपरिहारिण्यो वानवासिकाः ॥
 
वानवासिका इति । कुङ्कणविषयात्पूर्वेण वनवासविषयः । तत्र भवाः ।
मध्यमवेगा भावतः कालतश्च समालिङ्गनादिकं सहन्ते । व्यक्तमात्मनः श
रीरे दोषं प्रच्छादयन्ति । परस्योपहसन्ति । कुत्सितं रूपेण व्यवहारेण
च । अश्लीलं ग्राम्यं परुषं परिहरन्ति । न तेन संप्रयुज्यन्ते ।
 
मृदुभापिण्योऽनुरागवत्यो मृत्यङ्ग्यश्र गौड्यः ॥
 
गौडेय इति । गौडदेशोद्भवाः । प्रदर्शनं चैतत् । अन्यदपि लक्षयेत् ।
१. 'प्रसिञ्चन्ति'. २. 'गौड्य इति । गौडदेशोद्भवा.' इति पुस्तकान्तरे नान्ति.