This page has not been fully proofread.

कामसूत्रम् । १० आदितोऽध्यायः]
 
प्रहणनेन जातरतयः । आमीर्य इति । आमीरदेशः श्रीकण्ठकुरुक्षेत्रादि-
भूमिः । तत्र भवाः ।
 
सिन्धुपष्ठानां च नदीनामन्तरालीया औपरिष्टकसात्म्याः ॥
सिन्धुषष्ठानां चेति । सिन्धुनदः षष्ठो यासां नदीनाम् । तद्यथा-
विपाट् शतगुरिरावती चन्द्रभागा वितस्ता चेति पञ्चनद्यः । तासामन्तरालेषु
भवाः । औपरिष्टकसात्म्या इति । सत्यपि परिष्वङ्गचुम्बनादौ मुखे जघ-
नकर्माणः । खरवेगाः प्रीयन्त इत्यर्थः ।
 
1
 
चण्डवेगा मन्दसीत्कृता आपरान्तिका लाव्यश्च ॥
 
आपरान्तिका इति । पश्चिमसमुद्रसमीपेऽपरान्तदेशः । तत्र भवाः ।
अत्रत्यैः किलार्जुनसकाशाद्विष्णोरन्तःपुरमाच्छिन्नमिति । लाट्यश्चेति ।
अपरमालवात्पश्चिमेन लाटविषयः । तत्रभवाब्यण्डवेगाः । मन्दसीत्कृता
इति सीत्कृतानि मन्दं च प्रहारं सहन्त इत्यर्थः । तदुद्भवत्वात्सीत्कृतस्य ।
दृढप्रहणनयोगिन्यः खरवेगा एव, अपद्रव्यप्रधानाः स्त्रीराज्ये
कोशलायां च ॥
 
स्त्रीराज्य इति । वज्रवन्तदेशात्पश्चिमेन स्त्रीराज्यं तत्र, कोशलायां
च योषितः सत्यप्यालिजनादौ दृढप्रहारैः प्रीयमाणाः संप्रयुज्यन्ते ।
खरवेगा एवेत्यवधारणात्सर्वदैवेत्यर्थः । कण्डूतेराधिक्याद्रागः खर इत्यु -
च्यते । तद्भावे तु चण्ड इति विशेषः । एवं च सति अपद्रव्यप्रधानाः ।
कण्डूतिप्रतीकारार्थ प्राधान्येन कृत्रिम साधनमिच्छन्तीत्यर्थः ।
 
प्रकृत्या मृब्यो रतिप्रिया अशुचिरुचयो निराचाराचान्ध्यः ॥
आन्ध्य इति । नर्मदाया दक्षिणेन देशो दक्षिणापथः । तत्र कर्णाट-
विपयात्पूर्वेणान्ध्रविषयः । तत्र भवाः । प्रकृत्या स्वभावेन मृदयङ्गयो न
प्रहणनादि सहन्ते । किं तु रतिप्रियाः । पुरुपोपसृप्तमिच्छन्तीत्यर्थः ।
अशुचिरुचयोऽविविक्तसमुदाचाराः । निराचाराश्च । भिन्नमर्यादा इत्यर्थः ।
सकलचतुःपष्टिप्रयोगरागिण्योऽश्लीलपरुषवाक्यमियाः शयने च
सरभसोपक्रमा महाराष्ट्रिकाः ॥
 
१. 'युज्यन्ते;' 'अनुरज्यन्ते.