This page has not been fully proofread.

+
 
!!
 
¿
 
५ अध्यायः] *
 
२ सांप्रयोगिकमधिकरणम् ।
 
१२९
 
शनच्छेद्यादीनीति
 
। नखच्छेद्यमाभियोगिकं प्राड् नोक्तम् । इहैकविषय-
त्वादेकीकृत्योक्तम् । दशनच्छेद्यविषय एकादशं प्रकरणम् ।
देशप्रवृत्तयो देश्या उपचारास्तानाह-
देशसात्म्याच योषित उपचरेत् ॥
 
देशसात्म्यादिति ल्यब्लोपे पञ्चमी । सात्म्यं द्विविधम् – देशतः, प्र-
"
 
कृतितश्च । तत्र चुम्बनादीनां येन यस्मिन्देशे सात्म्यमवस्थितं तदपेक्ष्यते ।
न तत्र योषित उपचरेत् । स्वयं तच्छीलवद्भवेत् । उपलक्षणमेतत् । पुरु-
पानपि योषित् ।
 
इं
 
तत्र मध्यदेशस्य प्रधानत्वात्तत्सात्म्यमाह-
7
 
मध्यदेश्या आर्यमायाः शुच्युपचाराधुम्वननखदन्तपदद्वेपिण्यः ॥
मध्यदेश्या इति । 'हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्य-
: गेव प्रयागाच मध्यदेशः प्रकीर्तितः ॥ इति भृगुः । 'गङ्गायमुनयोरि-
त्येके' इति वसिष्ठः । अयमेव शास्त्रकृतां प्राधान्येनाभिप्रेतः । तत्र-
भवा मध्यदेश्याः । शुच्युपचाराः सुरते शुचिसमुदाचाराः । आर्यप्राय-
त्वात् । चुम्बनादित्रयं द्वेष्टुं शीलमासाम् । आलिङ्गनमिच्छन्ति ।
 

 
चाहीकदेश्या आवन्तिकाश्च ॥
 
बाहीकदेश्या उत्तरापथिकाः । आवन्तिका उज्जयिनीदेशभवाः । ता
एवापरमालव्यः । चुम्बनादिद्वेषिण्यः ।
पूर्वाभ्यो विशेषमाह -
 
चित्ररतेषु त्वासामभिनिवेश: ॥
 
चित्ररतेप्विति । चित्ररतानि वक्ष्यन्ते । तेष्वभिनिवेशोऽतिप्रीतिकर-
• त्वात् ।
 
परिष्वङ्गचुम्वननखदन्तचूषणमधानाः क्षतवर्जिताः महणनसाध्या
मालव्य आभीर्यश्च ॥
 
मालव्य इति पूर्वमालवभवाः । परिष्वनचुम्बनानि प्राधान्येनेच्छन्ति ।
क्षतविवर्जिताः स्तोकदन्तनखदन्ताभ्यामिच्छन्ति (?) । प्रहणनसाध्याः
१. 'आलिङ्गनादिकम् . २. 'रतेषु त्वासामभिनिवेशा..
 
का० १७