This page has not been fully proofread.

J
 

 
बे
 

 
१ साधारणमधिकरणम् ।
 
शापादतिप्रवृद्धलोभश्चातुर्वर्ण्यस्यार्थमाहृतवान् । ततोऽर्थापहाराद्यज्ञादिक्रि-
याविरहोद्विग्नैर्ब्राह्मणैर्दर्भपाणिभिर्हतो ननाश' इत्यैतिहासिकाः ।
 
१ अध्यायः]
 
तत्समयाववोधकेभ्यश्राचार्येभ्यः ॥ इति ।
 
तेषां धर्मादीनां समयस्तत्त्वम् । अवबोधयन्तीत्यववोधकाः । तत्सम
यस्यावबोधका इति । पष्ठीसमासप्रतिषेधस्यानित्यत्वम् । 'तव्प्रयोजको
हेतुश्च' इति निदर्शनात् । ये तत्समयं प्रतिपादयितुं तच्छात्रं प्रणीतवन्त-
स्तेभ्यो नमः, नान्येभ्य इत्यर्थः ।
 
कुत इत्यत आह -
तत्संवन्धात् ॥ इति ।
 
तेषामिह शास्त्रे संबन्धादित्यर्थः । तत्प्रणीतशास्त्रसंक्षेपेण हि शासस्य
प्रणयनात् ।
 
'प्रजापतिर्हि' इत्यादिनागमविशुद्ध्यर्थ गुरुपूर्वक्रमलक्षणं संबन्धमाह -
मजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिवन्धनं त्रिवर्गस्य सा
धनमध्यायानां शतसहस्रेणाग्रे मोवाच ॥
 
प्रजापतिहीति । हिशब्दो यस्मादर्थे । अविपरीतोऽयमागमो गुरुपर-
म्परयान्वाख्यायते । यतः स्थितिनिबन्धनमिति । प्रजानां तिखोऽवस्थाः,
सर्गस्थितिप्रलयलक्षणाः । तत्र सर्गादूर्ध्वं प्रवन्धेनावस्थानं स्थितिः । सा
हि द्विविधा, शुभा चाशुभा च । त्रिवर्गोऽपि द्विविधः, उपाढेयोऽनुपा-
देयश्च । तत्र पूर्वो धर्मोऽर्थः काम इति । द्वितीयोऽप्यधमोंऽनयों द्वेप
इति । तत्र धर्मादमुत्र शुभा गतिः । अधर्मादशुभा । अर्थादिहैव परिभोगो
धर्मप्रवर्तनं च । अनर्थात्क्लिष्टजीवनमधर्मप्रवर्तनं च । कामाल्लुखं प्रजो-
त्पत्तिश्च । द्वेषान्नोभयम् । तस्य च निःसुखस्यामजस्य तृणस्येव स्थितिः ।
इत्येवं स्थितेस्त्रिवर्गो निबन्धनम् । तस्योपेयानुपेयस्य प्राप्तिपरिहारौ नो-
पायं विनेति तदुपायशासनत्वाच्छौस्रं च सम्यगुपचारात्तन्निबन्धनम् ।
शतसहस्रेणेति लक्षेण । अग्रे प्रोवाचेति तदानी शास्त्रान्तराभावाढिद-
१. 'क्लस' पा०. २. 'अथ विपरीतः' पा०. ३. 'शान' पा०.