2023-02-19 13:59:06 by ambuda-bot
This page has not been fully proofread.
१२८
कामसूत्रम् ।
१० आदितोऽध्यायः]
खण्डाभ्रकम् । तत्सादृश्यात् । स्तनपृष्ठे सौकर्याच्छोभितत्वाच्च । पुरुष
वक्षसीत्यर्थादवगन्तव्यम् । तच्च कण्ठोपग्रहेण निष्पाद्यम् ।
संहताः प्रदीर्घा वहयो दशनपदराजयस्ताम्रान्तराला वराइच-
वितकम् । स्तनपृष्ठ एव ।
संहता इति । स्तनपृष्ठस्यैकतो भागात्खल्पदेशां त्वचं देशनसंदंशेन
चर्चयेत्, यावदपरं भागम् । इत्यनेन क्रमेणोपर्युपरिचर्वणान्निरन्तराः प्रदी-
र्घा बहचश्चतस्रः षड़ा दशनपदपङ्कयो निष्पाद्याः । तासां चान्तरालानि
संमूर्च्छितरक्तत्वात्तात्राणि भवन्ति । अतो वराहस्येव चर्वणाद्वराहचर्वितकम् ।
स्तनपृष्ठ एव बहुलमांसत्वात् ।
तदुभयमपि च चण्डवेगयोः । इति दशनच्छेद्यानि ॥
तदुमयमपि खण्डाब्रकं वराहचर्वितकं च छेद्यं चण्डवेगयोः । तत्सा-
त्म्यात् । एपां नायिकापि प्रयोकी द्रष्टव्या । उभयोरपि शास्त्राधिका-
रात् । देशकालकार्यवशाल्किचिदेव कस्यचिदसाधारणम् । एतावन्ति द- !
शनच्छेद्यानि सांप्रयोगिकान्युक्तानि । प्रयोज्याशरीरे प्रयोज्यमानत्वात् ।
अभियोगे त्वसंभवात् ।
आकारप्रदर्शनार्थे सांक्रान्तिकमाभियोगिकमाह-
विशेषके कर्णपूरे पुष्पापीडे ताम्बूलपलाशे तमालपत्रे चेति :-
योज्यागामिपु नखदेशनच्छेद्यादीन्याभियोगिकानि ॥
विशेषक इति भूर्जपत्रादिकल्पिते तिलके । कर्णपूरे नीलोत्पलादौ ।
पुप्पापीड इत्युपलक्षणम् । शेखरे संसज्जितताम्बूलीपत्रे । तमालपत्रे सुरभि -
ण्यनङ्गलेखीकृते । एषां छेद्यविषयत्वात् । इतिशब्दः प्रकारे । प्रयोज्यागा-
मिप्विति गमिष्यन्तीति गामिनः । 'भविष्यति गम्यादयः' इति निपात-
नात् । प्रयोज्यागामिनो विशेषकादयः । 'गमि गम्यादीनाम्' इति स-
मासः । तेषु हि च्छेद्यानि संक्रान्तकान्याभियोगिकानि भवन्ति । नखद-
१. 'दशनपदपद्भिसंदशेन; 'दशनदेशसंदंशेन. २. 'दशनपदान्याभियोगिकानि.
३. 'पुष्पापीटयोरुपरि',