This page has not been fully proofread.

१२६
 
कामसूत्रम् ।
 
१० आदितोऽध्यायः]
 
त्रापि राज्युद्गतपरुषविषमाणामाननन्तिपरिपन्थित्वम् । कुण्ठादीनां
शेषाणां कार्यकरणेऽसामर्थ्य दोषश्च ।
 
गूढकमुच्छ्रनकं विन्दुविन्दुमाला प्रवासमणिर्मणिमाला खण्डा-
भ्रकं वराहचवितकमिति दशनच्छेदनविकल्पाः ॥
छेदनविकल्पा इति संक्षेपत उक्ताः ।
तेषां लक्षणं प्रयोगस्थानं चाह --
 
नातिलोहितेन रागमात्रेण विभावनीयं गूढकम् ॥
रागमात्रेणेति । राग एव रागमात्रम् । क्षताभावात् । अतिलोहितेनेति
तस्याधिक्यमाह । तेन विभावनीयं विज्ञेयम् । एवं च गूढमिव गूढकम् ।
अस्फुटितत्वात् । तदेकेनैव राजदन्ताग्रेणावष्टभ्य निष्पाद्यम् ।
 
तदेव पीडनादुच्छ्रनकम् ॥
 
तदोच्यते गूढकं यदापीढ्य निष्पाद्यते । तदा जातश्वयथुत्वादुच्छून-
कम् ।
 
तदुभयं विन्दुरघरमध्य इति ॥
 
तदुभयं गूढकमुच्छूनकं च । विन्दुरिति । अयमिति शब्दश्चार्थे । वि-
न्दुश्च वक्ष्यमाणलक्षणः । त्रितयमघरमध्ये । तेषां स्वल्पाभोगत्वात् ।
उच्छूनकस्य वैशेपिकं स्थानमाह-
उच्छूनकं प्रवालमणिश्च कपोले ॥
 
उच्छूनकं प्रवालमणिश्च वक्ष्यमाणलक्षणः । कपोले तस्य शक्य -
क्रियत्वात् ।
 
कस्मिकपोल इत्याह -
 
कर्णपूरचुम्बनं नखदशनच्छेद्यमिति सव्यकपोलमण्डनानि ॥
सव्यकपोलमण्डनानीति यथा कर्णपूरश्चारुत्वाद्वामे कर्णे विन्यस्तो वा-
मकपोलस्य मण्डनं तथा । यथोक्तम् – 'दन्तच्छेद्यं चुम्वनं सताम्बूलं
रागमण्डनम्' ।
 
१. 'कान्तिकरत्वापरिपन्थित्वम्'. २. 'सामर्थ्य दोपाच्च'. ३. 'मूढकम्'. ४. 'मूढमिव
मूढकम्' ५. 'दशच्छेद्यम्' 'दशनच्छेयम्'.