This page has not been fully proofread.

१२४
 
कामसूत्रम् ।
 
९ आदितोऽध्यायः]
 
नसंस्मारीति रूपं यौवनं गुणाश्चेति रागायतनम् । तत्स्मारयितुं शीलं
यस्येति । नखक्षतदर्शनात्तद्रूपादिषु सरणम् । ततः प्रीतिवासनात्प्रबोधः ।
सामान्येन प्रशंसामाह -
 
पश्यतो युवतिं दूरान्नखोच्छिष्टपयोधराम् ।.
बहुमानः परस्यापि रागयोगच जायते ॥
 
दूरादिति तत्प्रकारमनुपलभ्यापि । उच्छिष्टं परिमुक्तम् । बहुमानो-
ऽतिगौरवम् । परस्यापि येनापि न संगता । रागयोग इति रागेण युज्यत
इत्यर्थः ।
 
पुरुषश्च प्रदेशेषु नखचिह्रैर्विचिह्नितः ।
 
चित्तं स्थिरमपि प्रायथलयत्येव योषितः ॥
पुरुषश्चेति यथा पुरुषस्य तथा योषितोऽपि पुरुषं दृष्ट्वा रागः । प्र-
देशेषु सदृशेषु । विचिह्नितो विलिखितः । तपश्चरणादिभिर्नियतमपि प्रा-
यश्चलयतीति प्रकृतेरित्यर्थः ।
 
नान्यत्पटुतरं किंचिदस्ति रागविवर्धनम् ।
नखदन्तसमुत्थानां कर्मणां गतयो यथा ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
चतुर्थोऽध्यायः ।
 
"
 
आदितो नवमः ।
 
नान्यदिति रागयोगेभ्यः । पटुतरं रागवृद्धौ योग्यतरम् । दन्तग्रहणं
तुल्यफलत्वदर्शनार्थं प्रासङ्गिकम् । कर्मणां गतय इति छेद्यानां प्रवृत्तयो
यथा देहान्तरस्थिता न तथा लोकेऽन्यदस्ति संप्रयोगेऽपि रागवर्धनम् ।
पूर्वपूर्वमिति वक्ष्यति । इति नखरदनजातयो दशमं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकाया जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके
द्वितीयेऽधिकरणे नखरदनजातयश्चतुर्थोऽध्यायः ।
 
१. 'विचित्रितः'. २. 'नातः परतरम्'.
 
+