2023-02-19 13:59:05 by ambuda-bot
This page has not been fully proofread.
४ अध्यायः]
२ सांप्रयोगिकमधिकरणम् ।
१२३
रागे सत्यरागे च वैचित्र्यमपेक्षन्त इत्याह – वैचक्षण्ययुक्ताश्चेति । तज्ज्ञ-
तया युक्ता देवदत्तासदृश्यो गणिकास्तत्कामिनश्च मूलदेवसदृशाः । ते च
विशिष्टरतार्थिनः परस्परस्य प्रार्थनीयास्तज्ज्ञा भवन्ति । मा भूदन्यत्र ख
लरतमिति । ततश्च तेषां वैचित्र्यमेव रागं जनयति । धनुर्वेदादिष्वपीति
शास्त्रान्तरेणास्य साधम्यै दर्शयति । आदिशव्दात्कुन्तखड्गादिशास्त्रपैरि-
अहः । शस्त्रकर्मशास्त्रेष्विति ज्ञानविद्या कर्मविद्या चेति द्विविधा विद्या ।
धनुर्वेदे हि परशराणामागच्छतां शरैश्छेदनमे कसंधानेनानेकशरमोक्षणमि-
त्यादिकं कर्मवैचित्र्यम् । कि पुनरिह कामसूत्रे यत्र वैचित्र्यमेव मुख्यम-
भिप्रेतम् । अन्यथा नागरकानागरकयोः को भेदः ।
सर्वत्र च वैचक्षण्ययुक्तेषु वैचित्र्यप्रतिपेघमाह -
न तु परपरिगृहीतास्वेवं कुर्थात् । गच्छन्नेषु प्रदेशेषु तासामनु-
स्मरणार्थ रोगवर्धनाच विशेषान्दर्शयेत् ॥
न त्विति । परपरिगृहीतासु वैचक्षण्ययुक्तास्वपि । एवमिति वैचित्र्यं
युक्तम् । तासां प्रच्छन्ननायकोपभोग्यत्वात् । प्रच्छन्नेष्विति ऊरुजघनव-
प्रणादिषु । अनुस्मरणार्थमिति ये नखच्छेद्यविशेपास्तादृष्ट्वा स्मरन्ति ।
नित्यसमागमस्य दुर्लभत्वात् । रोगवर्धनाञ्चेति । प्रमोदमात्रस्वरूपत्वाद्वि-
सृष्टिलक्षणां प्रीर्ति महती जनयन्ति ।
स्मरणमधिकृत्यान्वयव्यतिरेकाभ्यां प्रशंसामाह -
नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः ।
चिरोत्सृष्टाप्यभिनवा मीतिर्भवति पेशला ॥
नखक्षतानीति । गूढस्थानादिपु । अभिनवा प्रथमसमागम इव प्रीतिः
नेहः । पेशला अकृत्रिमा ।
चिरोत्सृष्टेषु रागेषु श्रीतिर्गच्छेत्पराभवम् ।
रागायतनसंस्मारि यदि न स्यान्नखक्षतम् ॥
चिरोत्सृष्टेप्वनुभूय चिरपरित्यक्तेषु । पराभवं विनाशम । रागायत-
१. 'परिग्रहशास्त्राणि । कर्म - २. 'रागवर्धनाथं च', 'रागवर्धनाथ'. ३. 'दिशे-
धास्तानि'; 'विशेषात्तानि'. ४. 'रागयर्धनं त्विति.