2023-02-19 13:59:06 by ambuda-bot
This page has not been fully proofread.
कामसूत्रम् ।
९ आदितोऽध्यायः]
आकृतिविकारयुक्तानीति
संस्थानविशेषयुक्तानि । अन्यान्यपि पक्षि-
कुसुमकलशपंत्रवल्लयादीनि नखकर्माणि प्रयोक्तव्यानि । अनेन विकल्प-
स्याधिक्यं दर्शयति ।
विकैल्पानामनन्तत्वादानन्त्याच्च
गामित्वाद्रागात्मकत्वाच्छेद्यस्य प्रकारान्कोऽभिसमीक्षितुमर्हतीत्या
चार्याः ॥
कौशलविधेरभ्यासस्य च सर्व-
आचार्याणां मतं विकल्पानामिति । अष्टविकल्पमेवास्तु नान्यानि ।
तेषां छेद्यप्रकाराणां निरूप्यमाणानामानन्त्यात् । अतस्तान्कोऽभिसमीक्षि-
तुमर्हतीति संवन्धः । तदभिसमीक्षिणा कौशलमप्यपेक्षणीयम् । तस्य च
प्रतिविकल्पं भिन्नत्वादानन्त्यमित्याह – आनन्त्याच्चेति । कौशलविधिः
कौशलकरणम् । स च नाभ्यासं विनेत्ययमपरस्तृतीयोऽपेक्षणीयः । सो-
ऽप्येकत्र कृतोऽन्यत्र न कौशलं निष्पादयतीति सर्वगामिना भवितव्य-
मित्याह —–अभ्यासस्य च सर्वगामित्वादिति । तदियं महती परम्परेति
कः प्रकारानभिसमीक्षते । किं च रागात्मकत्वाच्छेद्यस्येति रागजन्यत्वा -
त्तदात्मकं नखच्छेद्यम् । रागविवृद्धौ हि नखविलेखनम् । तच्च तदानीं
रागान्धत्वादरूपवदेव प्रयुते । कोऽत्र च्छेद्यवस्तुनि प्रकारं प्रयोक्तुमर्हति
तदानीमष्टविकल्पमपि न वक्तव्यम् ।
भवति हि रागेऽपि चित्रापेक्षा । वैचित्र्याच परस्परं रागो ज-
नयितव्यः । वैचक्षण्ययुक्ताश्च गणिकास्तत्कामिनश्च परस्परं प्रार्थ-
नीया भवन्ति । धनुर्वेदादिष्वपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्यमेवा-
पेक्ष्यते किं पुनरिहेति वात्स्यायनः ॥
भवति हि रागेऽपीति । हिशब्दोऽवधारणे । रागकालेऽपि केषांचि-
त्सत्यप्यानन्त्ये वैचित्र्यापेक्षा भवत्येव । अपिशव्दादरागकालेऽपि । यदा-
ह–वैचित्र्याचेति । आहार्यरागे कृत्रिमरागे च रते परस्परस्य राग उ-
त्पद्यमानः सन्विना (?) वैचित्र्यमिति तज्जननार्थं च वैचित्र्यापेक्षा । के पुनस्ते
१२२
१. 'संस्कार -'. २. 'पत्रावल्यादीनि'. ३. 'विकाराणामानन्त्यादनन्तत्वाच्च'. ४ को-
शलविधे:'. ५. 'कर्मशास्त्रेषु. ६. 'च' इति पुस्तकान्तरे नास्ति ७ 'वैचित्र्यापेक्षया.