This page has not been fully proofread.

Et
 
1
 

 

 
कु
 
4
 
8
 
.
 
२ सांप्रयोगिकमधिकरणम् ।
 
१२१
 
तत्संप्रयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पश्चनखपदानि
शंशप्लुतकम् ॥
 
तदिति मयूरपदकम् । संप्रयोगश्लाघाया इति नायकसंप्रयोगश्लाघा
यस्मा॑स्तस्या विधेयम् । सर्वा एव हि स्त्रियः स्तनमुखं सर्वनखविलुप्तं बहु
मन्यन्ते । यथोक्तम् – 'स ते मनसि तन्वनि सखि प्रागिव वर्तते । स्तन-
चक्रं विशालाक्षि यत्ते शिखिपदाङ्कितम् ॥" इति । स्तनचूचुक इति सा-
मीप्ये सप्तमी । संनिकृष्टानीति नखाप्रपञ्चकमेकीकृत्यावष्टभ्य निदध्या-
ततः पञ्च पदानि संनिकृष्टानि शशतकम् । तदाकारत्वात् ।
स्तनपृष्ठे मेखलापथे चोत्पलपत्राकृतीत्युत्पलपत्रकम् ॥
उत्पलपत्राकृतीत्युत्पलपत्रसंस्थानम् । तदेकमेव स्तनपृष्ठे मेखलापथे
चेति । यथा मेखला निवध्यते । तत्र पैथग्रहणान्नैकम् । अपि तु तिर्य-
गुत्पलपत्रमालामिव शोमार्थं निर्देध्यात् । नाभिमूलस्तनमण्डलेऽस्या नाय -
करत्नवदाभाति ।
 
अध्यायः]
 
ऊर्वोः स्तनपृष्ठे च भवासं गच्छतः स्मारणीयकं संहताश्चतस्र
स्तिस्रो वा लेखाः । इति नखकर्माणि ॥
 
सारणीयकमिति प्रोषितं सारयति यन्नखच्छेद्यं लेखाख्यम् । 'कृ-
त्यल्युटो बहुलम्' इति कर्तर्यनीयर । ततः संज्ञायां कन् । ततः प्रयो-
ज्याया ऊर्वोः प्रवासं गच्छतः प्रच्छन्नस्य नायकस्य प्रयोक्तः, स्तनपृष्ठे
सार्वलौकिकस्य । संहता इति निरन्तरा मेखलार्थम् । मा भूच्चिरविप्रयोग
5 इति चतस्रो दीर्घप्रवासे तिस्रो इस्वप्रवासे संख्याङ्कवल्लेखाः । एपामर्धच-
न्द्रादीनां देशकालकार्यवशान्नायिकापि प्रयोकी । नखकर्माणीत्येतानि
नखच्छेद्यानि रूपवन्तीत्यर्थः । अरूपिणां त्वनिबद्धरूपत्वात्तत्स्थानानि -
यमः । सर्वत्रैवोक्तस्थाने प्रयोगः ।
 
3
 
अन्येपामतिदेशमाह -
 
1
 
आकृतिविकारयुक्तानि चान्यान्यपि कुर्वीत ॥
 
१. 'श्लाघनाय चूचुके'. ५. 'श्लान येति'. ३. 'पथिग्रहणात्'. ४. 'दद्यान्',
५. 'निरन्तरमेखलार्थम्'. ६. 'स्थाननियमः '
 
का० १६