This page has not been fully proofread.

१२०
 
कामसूत्रम् ।.
 
९ आदितोऽध्यायः]
 
मित्यर्थः । एते संवाहनादिष्ववस्थिकाः सर्वाखेव नायिकासु । अस्याव-
स्थिककार्यवशान्नायिकापि प्रयोकी ।
 
ग्रीवायां स्तनपृष्ठे च वक्रो नखपद निवेशोऽर्धचन्द्रकः ॥
ग्रीवायामिति श्रीवापार्श्वे बहिर्मुखाः स्तनपृष्ठे चोर्ध्वमुखाः । अर्ध-
चन्द्रवद्वक्रोऽर्धचन्द्रः । सूच्यग्रेण कनिष्ठामुखेन निष्पाद्यो मध्यमामुखे-
नार्धचन्द्रेण ।
 
तावेव द्वौ परस्पराभिमुखौ मण्डलम् ॥
 
तावेव द्वाविति अर्धचन्द्रौ क्रोडभावेन परस्परॉभिमुखौ मण्डलम् ।
तदाकारत्वात् ।
 
नाभिमूलककुन्दरवहणेषु तस्य प्रयोगः ॥
 
नाभिमूले रशनानायकवदेव स्थितम् । ककुन्दरयोर्नितम्बस्योपरिकूप- }
कयोरन्तर्निहितप्रतिकूपकं मनोहारि । वङ्खणयोरूरुसंध्योः कर्णिकालंकार-
वज्जघनस्य ।
 
सर्वस्थानेषु नातिदीर्घा लेखा ॥
 
सर्वस्थानेति । लेखायाः स्थानविशेषाभावान्न स्थानविशेषाः । तेन ग्री-
वात्रिकष्पृष्ठपार्श्वोरुमूलवाहुपु नातिदीर्घस्थानविशेषाङ्चङ्गुला व्यङ्गुला वा
प्रत्यग्रशिंखरनिष्पाद्या ।
 
सैव वक्रा व्याघनखकमास्तनमुखम् ॥
 
सैवेति । लेखा स्तनमुखादुत्थाप्याप्रतो वक्रीकृता व्याघ्रनखखण्डव-
त्स्तनकण्ठमलंकरोति ।
 
पञ्चभिरभिमुखैलेखा चूचुकाभिमुखी मयूरपदकम् ॥
पञ्चभिरपि नखैः सूच्यमशिखरकैश्चचुकाभिमुखा इति स्तनमुखस्याघ-
स्तादङ्गुष्ठकनखं विन्यस्योपरि च संश्लिष्टाङ्गुलिनखानि चूचुकस्याभिमुख-
माकर्पयेत् । मयूरपदकं तदाकारत्वात् ।
 
१. 'आवश्यकाः'. २. 'अस्यावस्थितक-'. ३. 'निष्पीज्य:'. ४. 'अभिमुखम्.
५. 'पार्श्वयोहरुमूल. ६. 'शिखरकेण'.