This page has not been fully proofread.

कामसूत्रम् ।
 
१ आदितोऽध्यायः]
 
परोपदेशश्चेत्कथं न शास्त्राभ्युपगमः । तथा चेदमुपायपरिज्ञानं तद्भुणा-
क्षरकल्पम् । सम्यक्करणीयवर्जनीयापरिज्ञानात् । ततश्चोपायबाहुल्याचैर्ना-
गरिकैरनागरिका नागरिकाः क्रियन्ते । तथा चोक्तम्– 'यदविज्ञातशास्त्रेण
कदाचित्साधितं भवेत् । न चैतद्वहुमन्तव्यं घुणोत्कीर्णमिवाक्षरम् ॥' इति ।
यदपि कामशास्त्रविदां केषांचिद्वयवहाराकौशलम्, तत्तेषामेव दोषः, न
शास्त्रस्य । प्रतिपत्तिदोषाञ्च शास्त्रानर्थक्यं सर्वत्र तुल्यम् । नहि चिकि-
त्साद्यर्थेषु शास्त्रेषु सर्वे तद्विदः पथ्याहारादिकं सेवन्ते । तस्मात्तदर्थिनो
ये भक्तिश्रद्धान्वितास्तेऽपि शास्त्रप्रयोजनहेतवः ।
 
तत्र देवतानमस्कारपूर्वकं शास्त्रप्रणयनमविनितप्रसरं भवतीत्याह-
धर्मार्थकामेभ्यो नमः ॥
 
अर्थशब्दस्याजाद्यदन्तत्वेऽपि न पूर्वनिपातः । धर्मस्याभ्यर्हितत्वात् ।
वक्ष्यति च – 'पूर्वः पूर्वो गरीयान्' इति ।
 
-
 
अन्यदेवतासद्भावेऽपि किमिति तेभ्यो नम इत्याह-

 
शास्त्रे प्रकृतत्वात् ॥ इति ।
 
'अधिकृतानधिकृते प्रतिपत्तिबलीयसी' इति न्यायात् । यथा च पुरु-
षार्थत्वेन कामोऽस्मिन्शास्त्रे ऽधिकृतस्तथा तद्वारेण धर्मार्थावपि । एतदुपदि-
ष्टोपायपूर्वकं प्रवर्तमानस्य त्रिवर्गसिद्धेः । तथा च वक्ष्यति – 'अन्योन्या-
नुबद्धं त्रिवर्ग सेवेत । तथा सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां
धर्मोऽर्थः पुत्राः संबन्धः पक्षवृद्धिरनुपस्कृता रतिश्च' इति । तेषां चाघि-
कारात्तदधिष्ठात्र्यो देवता अधिकृताः । उपचाराच्छन्दवाच्याः । अन्यथा
धर्मादीनां वक्ष्यमाणलक्षणानामदेवत्वात्मकत्वान्नमस्कारो नोपपद्येत । अ-
घिष्ठातृदेवतास्तित्वं चागमात् । तथाहि — 'पुरूरवाः शक्रदर्शनार्थमितः
स्वर्ग गतो मूर्तिमतो धर्मादीन्ह पागम्य धर्ममेवेतरावनादृत्य प्रदक्षिणी-
चकार । ततोऽसौ ताभ्यां तिरस्कारामर्षिताभ्यामभिशप्तः । ततोऽस्य का-
माभिशापादुर्बशीविरहोत्पत्तिरभूत् । तस्यां च कथंचिदुपशान्तायामर्थाभि -
 
-
 
१. 'गरीयसीति मन्यते' इति पा०. २. 'विवक्षितः' पा०. ३. 'क्रियासिद्धेः' पा०.