This page has not been fully proofread.


 
कामसूत्रम् ।
 
९ आदितोऽध्यायः]
 
शिखराणीत्यभिनवघटिताआाणि । द्विशिखरकाणि त्रिशिखरकाणि वा क्र.
कचमुखवत्कल्पितानि । तैत्रिशिखरकाणि अनतिविस्तीर्णरैथलत्वाद्रुतं मि
द्यन्ते । तद्विपर्ययाणि मध्यमन्दवेगयोरित्यर्थोक्तम् । तत्रेषत्प्रसृष्टाग्राणि
शूकाकृतीनि मध्यवेगयोः । प्रसृष्टाप्राण्यर्धचन्द्राकृतीनि मन्दवेगयोः ।
इति तिस्रो नखकल्पनाः ।
 
११८
 
अनुगतराज सममुज्ज्वलममलिनमविपाटितं विवर्धिष्णु मृदु
स्निग्धदर्शनमिति नखगुणाः ॥
 
अनुगतराजीत्यनुगता विवर्णा मैध्ये लेखा यस्य । सममनिम्नोन्नतप्पू-
ष्ठम् । उज्ज्वलमागन्तुकमलाभावादमलिनम् । नीतितः (१) अविपाटितम-
विस्फुटितम् । विवर्धिष्णु वर्धनशीलम् । मृदु, न काष्ठप्रख्यम् । स्निग्ध-
दर्शन मिति दृश्यत इति दर्शनं रूपम् । 'कृत्यल्युटो बहुलम्' इति ल्युट् ।
तद्रूक्षमस्येति ।
 
दीर्घाणि हस्तशोभीन्यालोके च योषितां चित्तग्राहीणि गौडानां
नखानि स्युः ॥
 
प्रमाणतस्त्रिघा तत्र दीर्घाणि हस्तशोभीनि हस्तं शोभयितुं शीलं
येषाम् । नखच्छेद्यं कर्तुमक्षमत्वात् । आलोके दर्शने । चित्तग्राहीणि
योषिद्भिर्दृश्यमाणानि तासां चित्तं हरन्तीति गुणद्वययुतानि । स्पर्शकर -
त्वात्प्रायशो गौडानाम् ।
 
इस्वानि कर्मसहिष्णूनि विकल्पयोजनासु च स्वेच्छापातीनि
दाक्षिणात्यानाम् ॥
 
हखानि कर्मसहिष्णूनि लेखनादि कर्म सहन्ते । दीर्घाणि तुभ-
ज्यन्ते । विकैल्पयोजनासु अर्धचन्द्रादयो ये विकल्पास्तत्संपादनासु
खेच्छावपातीनि प्रयोक्चुरिच्छया स्थाने योऽवपातः स विद्यते येषाम् । न
तु दीर्घाणाम् । इति गुणद्वयम् । तानि खररागत्वाद्दाक्षिणात्यानाम् ।
 
"द्विगु-
१. 'तत्कृत्रिमशिखरकाणि'. २. 'स्थूलत्वात्कृतम्'. ३. 'राजयो लेखा:'. ४.
णद्वय -'. ५. 'विकल्पयोजनानि'.