This page has not been fully proofread.

४ अध्याय:]
 
• २ सांप्रयोगिकमधिकरणम् ।
 
रागमान्ये तु दशनग्रहणमिति । सात्म्यवशाद्वा तयोः प्रयोगो यदि तदा
अचण्डवेगौ प्रकृतिसात्म्यान्न सहेतां तदा नैवेत्यर्थः ।
 
;
 
तदाच्छुरितकमचन्द्रो
शप्तकसुत्पलपत्रकमिति
 
मण्डलं रेखा व्याघ्रनखं मयूरपदकं श
रूपतोऽष्टविकल्पम् ॥
 
तदिति नखविलेखनम् । रूपत इति संस्थानतः । द्विविधं हि तत्-
रूपवदरूपवच्च । तत्र यत्कस्यचिदनुकारि तेंद्रूपवदृष्टप्रकारकमाच्छुरित-
कादि । तस्य लक्षणं वक्ष्यति । यदननुकारि तदरूपवत्रिविघम् । मृदुम•
ध्यातिमात्रयोगात् ।
 
कक्षौ स्तनौ गलः पृष्ठं जघनमूरू च स्थानानि ॥
स्थानानि कक्षास्तनगलपृष्ठजैघनोरुष्वेतेष्वेव षट्सु नखक्षतैः स्त्रीपुंस-
योरत्यर्थनिर्वृतेः । इत्याचार्याणां मतम् । उत्तरपक्षदर्शनात् । तत्र गल
इति सामीप्यात्तत्पार्श्वम् । जघनशब्दः समुदायेन कटिभागे तदेकदेशे च
पुरोभागे वर्तते । तदिह समुदायवृत्ति । तेन नितम्बलेखनमपि सिद्धम् ।
तथा चोक्तम् –'ग्रीवापार्श्वोरुकक्षेषु कटिपृष्ठस्तनेषु च । संप्रयोगे प्रयु-
जीत नखच्छेद्यानि योषिताम् ॥ इति ।
 
ļ
 
महत्तरतिचक्राणां न स्थानमस्थानं वा विद्यत इति सुवर्णनाभः
प्रवृत्तरतिचक्राणामिति प्रवृत्तरागोत्पीडानाम् । नास्थानमिति अङ्गप्र-
त्यङ्गं वा सिद्धं सर्वमेव नखक्षतस्य स्थानम् । यद्येवं तथापि शास्त्रकारो
रूपवतां नियतस्थानं वक्ष्यति । तत्र हि परमागं लभन्ते इति ।
 
छेद्यस्य नखाघीनत्वात्तेषामाश्रयतः कल्पनातो गुणतः प्रमाणतश्च
विधिमाह-~
 
तत्र सव्यहस्तानि प्रत्यग्रशिखराणि द्वित्रिशिखराणि चण्डवेग-
थोर्नखानि स्युः ॥
 
तत्रेति नखकर्मणि । सव्यहस्तानीति आश्रयभावेन वामो हस्तो येषा-
मिति । दक्षिणस्य प्रायशोऽत्यन्तव्यापारादेषां भङ्गोऽपि स्यात् । प्रत्यग्र -
१. 'तत्' इति पुस्तकान्तरे नास्ति. २. 'तद्रूपम्'. ३. 'जघनोरुक्षुतेष्वेव'. ४. 'स-
व्यहस्ते'.