2023-02-19 13:59:04 by ambuda-bot
This page has not been fully proofread.
कामसूत्रम् ।
९ आदितोऽध्यायः]
कारग्रहणेन स्फुटरसं स्यात् । तच्चित्तानुविधानादिति । इति चुम्बनवि-
कल्पा नवमं प्रकरणम् ।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गवाभिघानायां विदग्धाङ्गनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके
द्वितीयेऽधिकरणे चुम्बनविकल्पास्तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः ।
एवं चुम्बनेनोपक्रम्य ततोऽधिकेन नखच्छेद्येनोपक्रमयितुं नखरदनजा-
तय उच्यन्ते । नखविलेखनप्रकारा इत्यर्थः ।
तदेव खरूपेण दर्शयन्नाह --
रागवृद्धौ संघर्षात्मकं नखविलेखनम् ॥
संघर्षात्मकमिति प्रदेशस्य नखैर्यत्समन्ततो घर्षणमवयवपृथक्करणं तन्न-
खविलेखनम् । तत्स्वभावत्वात् । तच्च रागवृद्धौ सत्याम् । यत्तु नखात्रेण
तुदनं तद्रागमान्द्ये सति । तत्र च्छेद्यस्याभावात् । नखविलेखनस्यैव
प्रकाराः कथ्यन्ते ।
तस्य व प्रयोगः कदा चेत्याह-
तस्य प्रथमसमागमे मवासप्रत्यागमने प्रवासगमने क्रुद्धप्रसन्नायां
मत्तायां च प्रयोगः । न नित्यमचण्डवेगयोः ॥
तस्येति नखविलेखनस्य । अचण्डवेगयोरिति मन्दमध्यवेगयोः । न
नित्यप्रयोगः । कदा तर्हीत्याह – प्रथमसमागमे तथा प्रवासप्रत्यागमने त-
योरुत्कण्ठितयोः प्रवृद्धरागत्वात् । प्रवासगमने सरणार्थम् । क्रुद्धप्रसन्ना-
यामिति नायकेन प्रसादिता सती हर्षाद्विवृद्धरागा भवति । मत्तायां च
मद्यमदेन रागस्योच्छ्रितत्वात् । एवं क्रुद्धप्रसन्ने मत्ते च नायके द्रष्टव्यम् ।
चण्डवेगयोस्तदा च प्रयोगो नित्यमर्थोक्तम् ।
तथा दशनच्छेद्यस्य सात्म्यवशाद्वा ॥
तथा दशनच्छेद्यस्य प्रयोग इत्येव । तस्यैतावता तुल्यत्वादित्यति-
देशः । तेन स्वरूपमपि योज्यम् । रागविवृद्धौ संघर्षात्मकं दशनच्छेद्यम् ।
१. 'तत्वभावाच रागवृद्धौ'. २. 'इत्येवम् .