This page has not been fully proofread.

११४
 
कामसूत्रम् ।
 
: ८ आदितोऽध्यायः]
 
विकं दद्यान्मानयिता वा । कुपितेति मानेन पादपतनादिना संमानात्खा-
पयेत् । एतत्रिविधमावश्यकं समागतयोराह ।
 
आदर्श कुब्ये सलिले वा प्रयोज्यायाश्छायाचुम्बनमाकारम-
दर्शनार्थमेव कार्यम् ॥
 
आदर्श इति । कुड्ये दीपाद्यालोकयुक्ते । प्रयोज्याया इत्युपलक्षणा-
र्थत्वान्नायकस्यापि प्रयोज्यस्य । विशेषाभावात् । छायाचुम्बनमिति दर्प-
णादिषु प्रयोज्यप्रतिबिम्बस्य समीपालौकिकमेव चुम्बनं वैहासिकं कार्यम् ।
आकारप्रदर्शनार्थमिति । भावसूचकमाकारं प्रेदर्शयितुमित्यर्थः । यतस्तद-
वस्थां दृष्टो नरो मन्यते मय्यनुरक्तो यदेवमाकारयतीति । कुड्ये तु न
वैहासिकम् । किं तु छायावदने वदनं विदध्यादेवमित्याकारप्रदर्शनार्थम् ।
 
वालस्य चित्रकर्मणः प्रतिमायाच चुम्बनं संक्रान्तक्रमालिङ्गनं च ॥
बालस्येति । खाङ्कगतस्य लाडीकस्य चित्रकर्मण आलेख्यस्य प्रतिमाया
मृच्छिलाकाष्ठादिमय्याः प्रयोज्यासमक्षं चुम्बनं संक्रान्तकम् । तदध्यारो-
पादालिङ्गनं च संक्रान्तकम् । यथासंभवं चुम्बनाधिकारेऽपि प्रसङ्गादुक्तम् ।
छायाचुम्वनं संक्रान्तकं चोभयमावस्थिकं स्पर्शगोचरातीतयोरनभिवृत्तसं-
भाषणयोरसमागतयोर्द्रष्टव्यम् ।
 
.
 
तथा निशि प्रेक्षणके खजनसमाजे वा समीपे गतस्य प्रयोज्याया
हस्ताङ्गुलिचुम्बनं संविष्टस्य वा पादाङ्गुलिचुम्बनम् ॥
 
तथेत्याकारप्रदर्शनार्थम् । निशि रात्रौ प्रेक्षणके वा नटादिदर्शने वा
खजनसमाजे वा ज्ञातिसंबन्धिषु संभूय स्थितेषु प्रयोज्यायाः समीपोप-
विष्टस्य प्रयोक्तुः उपलक्षणार्थत्वात्प्रयोज्यस्य वा समीपोपविष्टायाः प्र
योकत्र्याः । हस्ताङ्गुलिचुम्वनमिति । तदा हस्तस्य सुलभत्वात् । तमन्याप-
देशेनाकृष्य तदङ्गलिचुम्बनम् । संविष्टस्येति नायिकासमीपे शयितस्य च
तद्धस्ताङ्गुलिचुम्बनं च तदानीमुभयोरपि सुलमत्वात् । तत्र हस्ताङ्गुलि -
चुम्बनस्य द्वावपि प्रयोक्तारौ । पादाङ्गुलिचुम्बनस्य नायिकैव । न नरः ।
गर्हितत्वात् ।
 
१. 'छायायामू'. २. 'ध्रुवन्तम्'. ३. 'पुनस्तदवस्थां द्रष्टा'. ४. 'यदेव कारयतीति'.