This page has not been fully proofread.

"
 
}
 
८ आदितोऽध्यायः]
 
एवमोष्ठचुम्बनं त्रिविधमुक्त्वा संपुटान्तर्गतत्वान्तर्मुखचुम्बनविकल्पा-
नाह -
 
११२
 
कामसूत्रम् ।
 
तस्मिन्नितरोऽपि जिह्वयास्या दशनान्षयेत्ताल जिह्वां चेति
जिह्वायुद्धम् ॥
 
तस्मिन्निति संपुटचुम्बने । इतरो नायको नायिका वा यस्य संपुटकं
प्रयोक्तुमस्येति (इच्छति) । प्रयोक्तुर्विवृतास्यत्वादुपर्यधश्च दशनाजिद्दया
घट्टयेत् । संमार्जयेदित्यर्थः । तालुं जिह्वयोर्ध्वप्रसारितया, जिह्वां वा ऋजुप्र-
सारितया घट्टयेत् । जिह्वायुद्धं च । कुर्यादिति शेषः । परस्परप्रेरणेन । एत-
चतुर्विधम् —–अन्तर्मुखचुम्वनं दशनचुम्वनं जिह्वाचुम्बनं ताल्लुचुम्बनं चेति ।
 
एतेन वलाद्वदनरदनग्रहणं दानं च व्याख्यातम् ॥
जिह्वायुद्धेन वदनरदनग्रहणमिति हठाद्वदनेन वदनस्य दशनैर्देशना-'
नां ग्रहणे परस्परस्य युद्धमिति ग्रहणपूर्वकं वदनयुद्धं रदनयुद्धं च व्या-
ख्यातम् । दानं चेति । एैक चुम्वयितुं हठाद्वदनं ददाति आहयितुं वा
दशनानन्यो गृह्णातीत्युमयोर्ब्रहणदानपूर्वकं वदनयुद्धं रदनयुद्धं चेति ।
 
समं पीडितमञ्चितं मृदु शेषाङ्गेषु चुम्वनं स्थानविशेषयोगात् ।
इति चुम्वनविशेषाः ॥
 
शेषाङ्गेष्विति ओष्ठान्तर्मुखेभ्योऽन्येषु ललाटादिस्थानेषु कर्मेमेदात्स-
मचुम्बनं पीडितचुम्बनमञ्चितचुम्बनं मृदुचुम्वनं चेति चतुर्विधम् । स्थानवि-
शेषयोगादिति । यद्यत्र प्रयुज्यते तत्तन्त्र स्यादित्यर्थः । तत्रोरुसंधिकक्षा-
वक्षःसु समम्, न पीडितं नातिमृदु । तेन कपोलकक्षामूलनाभिमूलेषु पीडित-
म् । ललाटचिवुकयोः कक्षापर्यन्ते चुम्बनमैञ्चितम् । ललाटे नयनयोर्मृदु-
स्पर्शमात्रकरणमिति । एवमेते कर्ममेदाचुम्बनभेदा उक्ताः ।
 
त एवावस्थामेदान्नामान्तरं प्रतिपद्यन्त इत्याह -
सुतस्य मुखमेवलोकयन्त्याः स्वाभिमायेण चुम्बनं रागदीपनम् ॥
 
१. 'संपुटान्तर्गतमुख'. २. 'ताङचुम्वनं च' इति पुस्तकान्तरे नास्ति. ३. 'एकम्'
४. 'शेषाङ्गचुम्वनानि स्थानविशेषात्. ५. 'यद्येवम्'. ६. 'चूचुकयो:'. ७. 'आकृष्टम्'.
e. 'एवमेव ते.' 'अवलोकयन्त्या:.