This page has not been fully proofread.

=
 
2
 
P
 
=
 
३ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१११
 
हस्तु प्रथमं न संभवति । प्रहणनकलहे द्रष्टव्यः । तदुद्भवत्वात् । तत्र
जेता ससीत्कृतं ग्रहण्यात् । जीयमानस्य प्रहणनं प्रतीच्छेत् ।
चण्डवेगयोरेव त्वेषां प्रयोगः । तत्सात्म्यात् ॥
 

 
एषामिति कलहानाम् । तत्सात्म्यादिति ईदृशैरेव चेष्टितैश्चण्डवेगयोः
सात्म्यम् । न मन्दवेगयोः । तद्विमक्षमत्वात् ।
 
तत उत्तरोष्ठविधिमाह -
 
तस्यां चुवन्त्यामयमप्युत्तरं गृह्णीयात् । इत्युत्तरचुम्बितम् ॥
 
तस्यामिति । समग्रहणेन नायकाघरं चुम्वन्त्यां नायिकायामयमपि
नायकः प्रसङ्गादस्या उत्तरोष्ठं समग्रहणेन गृह्णीयात् । उत्तरचुम्बित-
मुत्तरोष्ठग्रहणेन । प्रासङ्गिकमिदम् । केवलं तु सत्यधरे न प्रयोक्तव्यम् ।
ग्राम्यत्वान्नासिकापुटवत् । प्रासङ्गिके च तिर्यग्ग्रहणादीनामसंभवात् । ए-
वमुत्तरचुम्बितमेकविषमेव । समग्रहणं नामास्या नायिकापि प्रयोक्त्री ।
यदि पुरुषो न जातव्यञ्जनस्तदा ।
 
द्वयोरपि युगपद्विधिमाह -
 
ओष्ठसंदंशेनावगृह्यौष्ठद्वयमपि चुम्चेत । इति संपुटकं स्त्रियाः,
पुंसो वाजातव्यञ्जनस्य ॥
 
A
 
ओष्ठसंदंशेनेति । उमाभ्यां ग्रहणं संदंशः । तेनौष्ठद्वयमवगृह्य वक्त्रा-
न्तः प्रवेश्यामिचुम्बेदिति । ससीत्कारं खमोष्ठपुरं संकोचयेदित्यर्थः । सर्वत्र
चुम्बनविघावयाते शब्दोच्चारणं कार्यम् । संपुटकमोष्ठद्वयग्रहणात् । एतच्च-
तुर्विधम् ~ समं तिर्यग्भ्रान्तमवपीडितं च । ओकृष्टं न योज्यमशोभित्वात् ।
र्खिया इति । पुंसा प्रयोक्तव्यम् । तदोष्ठयोर्निमित्वात् । स्त्रियापि पुंस-
श्राजातव्यञ्जनस्याप्ररूढश्मश्रोः । इतरथा लोमभिर्वकपूरणमसुखावहं स्यात् ।
 
१. 'तस्यां चुम्वन्त्यामेवोत्तरं गृह्णीयादित्युत्तरोष्ठ रागदीपनम् इति वृत्तिकारसमतः
पाठ:. २. 'सत्यघरेण; 'सत्यप्यघरेण'; 'सत्यप्यघरे न.' ३. 'ससूत्कारम्. ४. 'आ-
यति'; 'आपाते'. ५. 'मत्कष्टम्'; 'महत्कष्टम्' ६. 'त्रियेति'.