This page has not been fully proofread.

३ अध्याय:]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१०९
 
इत्यनेन द्वयोरभिमतपणं सूचयति । द्यूतं च कपटेनाकपटेन वा स्यात् ।
तत्र यल्लौकिकेनैव चुम्बनेन द्वावेव परस्परस्याघरं चुम्बतस्तदकपटं च
वक्ष्यति । तत्र तस्मिन्नकपटे द्यूते प्रवृत्ते नायकेन पूर्वमन्यतमेन ग्रहणम् ।
चुम्बनेन गृहीताधरत्वाज्जिता । अकपटद्यूते नायिकाया अवलत्वात्तैव
जिता शोभते । कपटद्यूते चास्यास्तदनुरूपत्वाज्जयं वक्ष्यति । नायकेन तु
कपटद्यूते न जेतव्या । तस्या अननुरूपत्वात् ।
 
तत्रान्यतरस्य जयेऽपरस्य कलहोऽवश्यं भावी । द्यूतस्य कलहास्प-
दत्वात् । इति कलहयोजनं रागोद्दीपनार्थमाह -
 

 
तत्र जिता सारुदितं करं विधुनुयात्मणुदेदशेत्परिवर्तयेद्धला-
दाहृता विषदेत्पुनरप्यस्तु पण इति ब्रूयात् । तत्रापि जिता द्विगु-
णमायस्येत् ॥
 
सार्घरुदितमिति । क्रियाविशेषणं चैतत् । अधरपीडोपख्यापनायै स-
हार्षरुदितेन कृतकेन करं विधुनुयात्कम्पयेत् । प्रणुदेत्तर्जयेत् । भङ्गवैल-
क्ष्यान्नायकं क्षिपेत् । दशेच्छ्रेषमघरग्रहणं बुद्धा दन्तैः खण्डयेत् । प-
रिवर्तेत मुखेनाशक्ता चेत्कायेनाधरमोक्षार्थम् । विवदेन्नैव जितास्मि मयैव
जितमिति कलहयेत् । पुनरस्त्वपरः पण इति । पुनः क्रीडामः । पूर्वस्मा-
त्पणादयमपरः पण इति ब्रूयात् । तत्रापीति द्वितीयेऽपि पणे । द्विगुण-
मायस्येदिति करधूननाद्याधिक्येन कुर्यादित्यर्थः ।
 
कपटद्यूतमाह -
 
विश्रब्धस्य प्रमत्तस्य वाघरमवगृह्य दशनान्तर्गतमनिर्गमं कृत्वा
हसेदुत्क्रोशेत्तर्जयेद्वल्गेदाह्वयेन्नृत्ये मनर्तित भ्रुणा च विचलनयनेन
मुखेन विहसन्ती तानि तानि च ब्रूयात् । इति चुम्बनद्यूतकलहः ॥
 
विश्रव्धस्येति । तस्मिन्नेव सुखे मुखचुम्बनधूते अन्तरा विश्रव्धिकया
नायिका विश्रम्भयेत् । ततो विश्रव्धस्य प्रमत्तस्य वाकस्मादन्यत्र गँतचे-
तसोऽघरमवगृह्यौष्ठसंपुटेन ततो दशनान्तर्गतमनिर्गमं कृत्वा यथा तदन्तर्ग-
१. 'साख रुदितम्'. २. 'विधूनयेत'. ३. 'वलादाहृता' इति पुस्तकान्तरे नास्त्रि,
४. 'विधूनयेत्'. ५. 'प्रनतिंतभ्रूलता च'. ६. 'गता चेत्साघर-.