This page has been fully proofread once and needs a second look.

1
 
रिता पुस्तक/
(शाहपुरा मेघाढ़)
 
राजपूताना
 
श्रीवात्स्यायनमुनिप्रणीतं
 

 
कामसूत्रम् ।

यशोधरकृतया जयमङ्गलाख्यया व्याख्यया समेतम् ।
 

 
साधारणं नाम प्रथममधिकरणम् ।
 

 
प्रथमोऽध्यायः ।
 

 
वात्स्यायनीयं किल [^१]कामसूत्रं [^२]प्रस्तावितं कैश्चिदिहान्यथैव ।

तस्माद्विघाधास्ये जयमङ्गलाख्यां टीकामहं सर्वविदं प्रणम्य ॥

इह चत्वारो वर्णा ब्राह्मणादयः, चत्वारथाश्चाश्रमा ब्रह्मचारी गृहस्थो

वैखानसो भिक्षुरिति । तत्र ब्राह्मणादीनां गृहस्थानां मोक्षस्यानभिमत-
त्वानि

त्वात्त्रि
वर्गः पुरुषार्थः । तत्रापि धर्मार्थयोर्हेतुत्वात्काम एव फलभूतः प्र-

कृष्टः पुरुषार्थ इति कामवादिनः । स चोपायं विना न भवतीति तमुपायमा-

चिख्यासुराचार्यमै[^३]मल्लनागः पूर्वाचार्यमतानुसारेण शास्त्रमिदं प्रणीतवान् ।

ननु तद्धेतुत्वाद्धर्मार्थावेवोपादेयौ, तौ च शास्त्रविहितौ । सत्यम् । तद्धेतु-

त्वेऽप्युपायान्तरापेक्षत्वात्संप्रयोगपराधीनः कामः । संप्रयोगश्चोपायमपेक्षते ।

उपायपरिज्ञानं च कामशासास्त्रात् । न धर्मार्थशास्त्राभ्याम् । वक्ष्यति च

प्रयोजनवाक्यम् –'संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते । सा चो-
पायप्रतिप्रत्तिः कामसूत्रात्' इति । तत्रोपायोऽभिधेयः । तत्प्रकाशनं

कामशास्त्रेण क्रियमाणं प्रयोजनम् । अन्यथा कथं प्रतिपत्तिः शास्त्रात् । अ
नधीतशास्त्राणां तु तच्छास्त्रोपायपरिज्ञानं स्वतोऽसंभवात्, परोपदेशात्स्यात् ।
 
¹9
 

 
[^
. ]'कामशास्त्रम्' इति पुस्तकान्तरे पाठः. [^. ]'व्याख्यापितम्' इति; 'व्याख्यायि
तत्' इति पाठान्तरम्. [^. ]'कामसूत्रविन्यास इव मल्नागघटित" इति वासवद
त्तायां विन्ध्यगिरिवर्णने. "माझ्मल्लनागेन मुनिविशेषेण, पक्षे गजविशेपेषेण, घटितो
रचितो युक्तश्च. 'मलनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि' इति विभः श्वः।" इति <flag>दर्पणारयां
</flag> वासवदत्ताटीकायां शिवरामः
 
.