This page has not been fully proofread.

1
 
रिता पुस्तक/
(शाहपुरा मेघाढ़)
 
राजपूताना
 
श्रीवात्स्यायनमुनिमणीतं
 
कामसूत्रम् ।
यशोधरकृतया जयमङ्गलाख्यया व्याख्यया समेतम् ।
 
साधारण नाम प्रथममधिकरणम् ।
 
प्रथमोऽध्यायः ।
 
वात्स्यायनीयं किल कामसूत्रं प्रस्तावितं कैश्चिदिहान्यथैव ।
तस्माद्विघास्ये जयमङ्गलाख्यां टीकामहं सर्वविदं प्रणम्य ॥
इह चत्वारो वर्णा ब्राह्मणादयः, चत्वारथाश्रमा ब्रह्मचारी गृहस्थो
वैखानसो भिक्षुरिति । तत्र ब्राह्मणादीनां गृहस्थानां मोक्षस्यानभिमत-
त्वानिवर्गः पुरुषार्थः । तत्रापि धर्मार्थयोर्हेतुत्वात्काम एव फलभूतः प्र-
कृष्टः पुरुषार्थ इति कामवादिनः । स चोपायं विना न भवतीति तमुपायमा-
चिख्यासुराचार्यमैल्लनागः पूर्वाचार्यमतानुसारेण शास्त्रमिदं प्रणीतवान् ।
ननु तद्धेतुत्वाद्धर्मार्थावेवोपादेयौ तौ च शास्त्रविहितौ । सत्यम् । तद्धेतु-
त्वेऽप्युपायान्तरापेक्षत्वात्संप्रयोगपराधीनः कामः । संप्रयोगश्चोपायमपेक्षते ।
उपायपरिज्ञानं च कामशासात् । न धर्मार्थशास्त्राभ्याम् । वक्ष्यति च
प्रयोजनवाक्यम् –'संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते । सा चो-
पायप्रतिप्रत्तिः कामसूत्रात्' इति । तत्रोपायोऽभिधेयः । तठप्रकाशनं
कामशास्त्रेण क्रियमाणं प्रयोजनम् । अन्यथा कथं प्रतिपत्तिः शास्त्रात् । अ
नधीतशास्त्राणां तु तच्छास्त्रोपायपरिज्ञानं स्वतोऽसंभवात्, परोपदेशात्स्यात् ।
 
¹9
 
१. 'कामशास्त्रम्' इति पुस्तकान्तरे पाठः. २. 'व्याख्यापितम्' इति; 'व्याख्यायि
तत्' इति व पाठान्तरम्. ३. 'कामसूत्रविन्यास इव मल्नागघटित" इति वासवद
त्तायां विन्ध्यगिरिवर्णने. "माझ्नागेन मुनिविशेषेण, पक्षे गजविशेपेण, घटितो
रचितो युक्तच. 'मलनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि इति विभः ।" इति दर्पणारयां
वासवदत्ताटीकायां शिवरामः