This page has not been fully proofread.

१०८
 
कामसूत्रम् ।
 
८ आदितोऽध्यायः]
 
सममिति । ओष्ठपुटेनाघरे पञ्चकग्रहणम् । तत्र यत्सर्वमभिमुखं गृह्यते
तत्समग्रहणम् । यत्साचीकृतेनोष्ठपुटेन सर्वे वर्तुलीकृत्य गृह्यते तत्तिर्य-
ग्ग्रहणम् । यच्चिवुके शिरसि च गृहीत्वा मुखं अमयित्वा गृह्यते तद्भा-
न्तम् । परस्पराघरग्रहणमित्यर्थः । तदेव त्रितयमवपीडितम् । अवपीढ्य
ग्रहणात् । पूर्वत्रितयं पीडितमिति विशेषः । तत्रोमाभ्यामेव यत्पीडितं
तच्छुद्धपीडितम् । यज्जिहाग्रेण सह तदवलीढपीडितम् । तच्चूषणमधरपानं
चेति नामद्वयेनोच्यते ।
 
पञ्चमग्रहणमाह -
 
अङ्गुलिसंपुटेन पिण्डीकृत्य निर्देशनमोष्ठ प्लुटेनावपीडयेदित्यव-
पीडितकं पञ्चममपि करणम् ॥
 
अङ्गुलिसंपुटेनेति तर्जन्यङ्गुष्ठसंपुटेन । पिण्डीकृत्य गृहीत्वा । ततो
निर्दशनं दशनव्यापारं विना ओष्ठपुटेनावपीडयेत् । अत्र पीडनेऽपि बहिः
पिण्डिताकर्षणं विशेषः । पञ्चके तदाकृष्टचुम्बनं नाम ग्रहणम् ।
 
एवं कर्मभेदादष्टविघमघरचुम्बनमुक्तं त्रीणि कन्याचुम्बनानि पञ्च ग्रह-
णचुम्बनानीति ।
 
तत्र कर्मणा चुम्बनमेदमशेषं
 
समाप्यैवमवसरप्राप्तत्वादधरचुम्बने
 
द्यूतमाह-
द्यूतं चात्र प्रवर्तयेत् ॥
 
द्यूतं चेति । अत्रेत्यस्मिन्नधरचुम्बने । नान्यस्थाने । चुम्बने विशो-
भत्वाद्द्यूतमनुरागवर्धनं स्यात् ।
तत्र जेयपराजयफलत्वाचूतस्य लक्षणमाह -
पूर्वमधरसंपादनेन जितमिदं स्यात् ॥
 
-
 
पूर्वमिति । आवयोः परस्परं चुम्बतोर्येन पूर्व प्रथमतोऽधरस्य ग्रहण -
विधिना संपादनं कृतं तस्मिन्सति तेन जितम् । किं तदित्याह–इदम् ।
 
१. 'पूर्वत्र न पीडितम्'. २. 'अहुलिसंपुटेनौष्ठमादाय जिह्वाग्रेण घट्टयित्वा निर्देयम-
बपीडयेदित्यवपीडितकमिति पञ्चम-'. ३. 'पिण्डीकृत्वाकर्पणम्'. ४, 'तत्र'. ५. 'जय-
फळत्वाद्दधूतलक्षणमाह ६. 'पूर्वमोष्ठ'.