This page has not been fully proofread.


 
३ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१०७
 
कन्याचुम्बनानीति । असंगताप्यजातविश्रम्भत्वात्कन्यैव । नायिका
एषां प्रयोकी ।
 
+
 

 
i
 
बढ़ने मैवेशितं चौष्ठं मनागपत्रपावग्रहीतुमिच्छन्ती स्यन्दयति
स्वमोठे नोत्तरमुत्सहत इति स्फुरितकम् ॥
 
वदने नायिकायाः । प्रवेशितं चौष्ठं स्खमधरं नायकेन । किंचिच्छ्रथी-
कृतलज्जा अनुग्रहीतुमिच्छन्ती । समग्रहणेन कथं तत्क्रियेतेति चेदाह -
स्पन्दयतीति । वमोष्ठमघरं चलयतीति [ते]नोत्तरमोष्ठमुत्सहते । स्प-
इयितुमर्थात् । तमपि यदि चलयति गृह्णात्ये समग्रहणेन । स्फुरितक-
छु मघरस्फुरणात् ।
 
i
 
वलात्कारेण नियुक्ता मुखे मुखमाधत्ते न तु विचेष्टत इति नि-
मितकम् ॥
 
बलात्कारेण हठाचुम्बने नियुक्ता मुखे नायकस्य मुखं खमाधत्ते
न्यस्यति लज्जया न विचेष्टतेऽघरग्रहणेन । निमितकमिति संज्ञायां कन् ।
चुम्बनक्रियामात्रत्वात्परिमितमित्यर्थः ।
 
ईषत्परिगृह्ण विनिमीलितनयना करेण च तस्य नयने अवच्छा-
दयन्ती जिह्वाग्रेण धट्टयति इति घहितकम् ॥
 
÷
 
ईषत्परिगृह्येति सर्वथा त्रपानपगमात् । समं नायकाधरौष्ठाभ्यां सम-
न्ततो गृहीत्वा । स्पष्टग्रहणात्समग्रहणं नाम चुम्बनं वक्ष्यति । निमी-
लितनयना लैज्जया । जिह्वाग्रेण घट्टयन्ती सर्वतो अॅमणेन स्पृशन्तीत्यर्थः ।
करेण नयने तस्यावच्छादयन्ती मैवमवस्थां मामयं द्रक्ष्यतीति । घट्टित-
कमधरघट्टनात् । सर्वत्र संज्ञार्थेनैव कर्मातिदेश इत्यधिकृतौ वेदितव्यम् ।
एषामानुपूर्व्येणैव प्रयोग इति ।
 
i
 
i
 
इदानीं शेषाणां नायकनायिकानां कर्मभेदादघरचुम्बनविकल्पानाह---
समं तिर्यगुद्धान्तमंवपीडितकमिति चतुर्विधमपरे ॥
 
१. 'चुम्बति'. २. 'प्रवेशितमोष्ठम्'. ३. 'समय-'. ४. 'एवमेव ग्रहणेन'. ५. 'वि-
निमीलितनयना जिह्वात्रेण घट्टयित्वा सम तिर्यगुड्रान्त-'. ६. 'लजायाम्'. ७. 'भ्रम-
णम्'. ८. 'द्राक्षीत्'. ९. 'सज्ञात्वेनैव'. १०. 'अवपीडित निर्दशनमवपीडयेदित्यवपी-
डितक पञ्चममपि करणम्.