This page has not been fully proofread.

१०६
 
कामसूत्रम् ।
 
८ आदितोऽध्यायः]
 
तेत्याह – रागसंधुक्षणार्थम् । अनेन क्रमेण रागो वर्धत इत्यर्थः । अन्यथा
विच्छिन्नरसं रतं स्यादिति । एवं परस्परविश्रव्धयोर्न चुम्बनादीनां पौर्वा-
पर्यम् । यदा तु विश्वासनार्थमुपक्रमस्तदास्त्येवेत्येषां पौर्वापर्यम् । उत्तरो-
तरस्याधिक्यात् । सहसा कर्तुमशक्यत्वादिति ।
 
आलिङ्गनानन्तरं चुम्बनविकल्पा उच्यन्ते तेच चुम्बनमेदा न च
स्थानभेदं विनेत्याह-
ललाटालककपोलनयनवक्षः स्तनोष्ठान्तर्मुखेषु चुम्बनम् । ऊरु-
संधिवाहुनाभिमूलयोर्लाटानाम् । रागवशादेशमवृत्तेश्च सन्ति तानि
तानि स्थानानि, न तु सर्वजनप्रयोज्यानीति वात्स्यायनः ॥
 
ललाटेति । तत्र वक्षः पुरुषस्य । स्तनौ योषितः । शेषा उमयो-
रपि । ओष्ठमुत्तरमधरं च । अन्तर्मुखो मुखान्तस्ताल्वादि । तत्रान्तर्मुखे ।
जिह्वया चुम्बनं वक्ष्यति । एतेष्वष्टसु स्थानेषु चुम्बनमविरुद्धत्वात्पूर्वा
चार्याणां मतम् । ऊरुसंघिबाहुनामिमूलेष्विति । ऊरुसंधिर्वङ्गणम् । बाहु-
मूलं कक्षौ । तथापरं दशनकृतं वक्ष्यति । नाभिमूलं वैराङ्गं पूर्वोत्तम् ।
लाटानामिति । तेषामेकादश स्थानानीति मतम् । रागवशादिति । यानि
रागार्थानि देशप्रवृत्तानि स्थानानि चुम्बन्ति । देशप्रवृत्तेश्चेति । यथा
लाटविषये प्रवृत्तत्वादूरुसंध्यादीनि तत्रत्याश्चम्बन्ति तानि सन्ति न तु
सर्वजनप्रयोज्यानि सर्वेण जनेन प्रयोक्तुमशक्यानि । शिष्टैरशुचित्वाद-
शक्यानि । तेषामष्टावेव स्थानानि ।
 
तत्र मुकुलीकृतेन वक्रेण संयोजनमिति लोकप्रतीतम् । तत्र स्थान -
विशेषेण यग्रहणकर्म तस्य भेदेन चुम्वनभेदाः कथ्यन्ते । तत्र चुम्वनस्थान
आस्यस्य मुख्यत्वात्तत्र चुम्बनमुच्यते । तत्राप्युत्तराधरसंपुटकमेदान्त्रिवि-
धम् । तत्र कर्मबहुत्वादधरमधिकृत्याह-
-
 
तद्यथा – निमितकं स्फुरितकं घट्टितकमिति त्रीणि कन्याचुम्ब-
नानि ॥
 
१. 'वरागमूबोंः'.
 
,