This page has not been fully proofread.

]
 
। ३ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
न्त्रयोगे प्राधान्येन वाहुल्येन रागाभ्यासाद्वा प्रबोधनाथै प्रयोगः । नाय-
कनायिकाभ्यां यन्त्रयोगे तु प्राधान्येनेत्यर्थोक्तम् । प्रहणनसीत्कृतयोस्तु
संप्रयोगे यन्त्रयोगे प्राधान्येन प्रयोग इत्येव । तदा हि प्रवृद्धरागयोः
प्राधान्येन घातसहत्वम् । प्रहणनबाहुल्ये च तदुद्भवस्य सीत्कृतस्यापि
बाहुल्ये प्रागप्राधान्येनेत्यर्थोक्तम् ॥
 
एकीयमतमेतत् । उत्तरपक्षदर्शनात् । यदाह -
 
सर्व सर्वत्र । रागस्थानपेक्षितत्वात् । इति वात्स्यायनः ॥
सर्वे सर्वत्रेति । चुम्बनादिपञ्चकं प्राक्प्रयोगे च प्राधान्येन प्रयोक्तव्यम् ।
रागस्यानपेक्षितत्वादिति । चण्डवेगो हि प्राधान्येनाप्राधान्येन वाश्रययो-
गमपेक्षते । मन्दवेगयोस्तु पूर्व एव पक्षः ।
 
अयं तु विशेषः पक्षद्वयेऽपि तुल्य इत्याह-
तानि प्रथमरते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च
मयुञ्जीत । तथाभूतत्वाद्रागस्य । ततः पेरमतित्वरया विशेषवत्स-
मुच्चयेन रागसंधुक्षणार्थम् ॥
 
-
 
तानि चुम्बनादीनि पञ्च । प्रथमरत इति रतस्यारम्भे । नातिव्य-
तानि नातिस्फुटानि । यथालक्षणस्यासमापनात् । विश्वब्धिकया विक-
स्पेन चेति । इदं वेदं वेत्येकमेव प्रयुञ्जीत । न समुच्चयेन । तद्यथा-
चुम्बनं वा नखच्छेद्यं वा । [चुम्बनं वा] दशनच्छेद्यं वा । चुम्बनं वा
ग्रहणनं वा । चुम्बनं वा सीत्कृतं वेति । चतुर्था । नखच्छेद्यं त्रिधा । 'द-
शनच्छेद्यं द्विधा । प्रहणनमेकं वेत्यनुलोमा दश । तावन्त एव प्रतिलोमाः ।
एकत्र विंशतिः प्रयोगाः । तथाभूतत्वादिति । आरम्भकाले हि मन्दो
रागः । ततश्च मध्यस्थचितता नातिसहिष्णुता चेति । तदनुरूप एव
प्रयोगः । ततः परमिति । आरम्भादुत्तरे काले समधिको रागयोगः ।
शरीरेऽपि च निरपेक्षत्वमिति तदनुरूपमतित्वरया विशेषवद्विकल्पवर्गा-
नुष्ठानात्समुच्चयेन चेदं वेत्यत्रापि विंशतिप्रयोगाः । किमर्थमेवं प्रयुञ्जी-
१. 'तानि प्रथमरतेऽव्यक्तानि त्वरित विकल्पेन प्रयुञ्जीत'. २. 'परमत्वरया.' ३. वि
श्रब्धिकया तु. ४. 'एवं इति पुस्तकान्तरे नास्ति ५. 'निरपेक्षितत्वम्'.
 
का० १४