This page has not been fully proofread.

कामसूत्रम् ।
 
८ आदितोऽध्यायः]
 
येऽपीति । अभिधायकत्वेन शास्त्रं संजातं येषां ते शास्त्रिताः । ये
संश्लेषाः । आदरेणैव । अ-
रागवर्धनत्वात्प्रयोज्याः । सां-
नैवंविघः किं तु स्वेच्छयोत्प्रेक्षिताः संयोगाः
 
वज्ञया न अशास्त्रिता इति । अत्र ते सुरते
प्रयोगिकाः संप्रयोगप्रयोजनाः ।
किंमित्यशास्त्रिताः प्रयोज्या इत्याह -
 
शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः ।
रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः ॥
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
आलिङ्गनविचारा द्वितीयोऽध्यायः ।
आदितः सप्तमः ।
 
शास्त्राणामिति । अप्रवृद्धरागा हि शास्त्रोक्तक्रमसंयोगे क्रमं चापेक्ष-
माणाः शास्त्राणां विषयः । रतिचक्रे रागोत्पीडे प्रवृत्ते तद्वशादशास्त्रिता-
नामप्यनुष्ठानात्तदानीं न शास्त्रं स्यान्नापि क्रमः । संयोगानां लोपे पौर्वा-
पर्यमुच्चावचेन प्रवर्तनम् । तस्मान्मा भूच्छास्त्रस्य क्रमस्य चानर्थक्यमित्य-
नुक्तमतिदिश्यते । इत्युपगूहनविचारोऽष्टमं प्रकरणम् ॥
 
इति श्रीवात्स्यायनीयकामसूत्रटीकायां जयमङ्गलाभिधानायां विदग्धाङ्गनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोधरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके द्वितीयेऽधि-
करण आलिङ्गनविचारा द्वितीयोऽध्यायः ।
 
तृतीयोऽध्यायः ।
 
एवं परिरभ्य चुम्बनादयः प्रयोक्तव्याः, तत्रापि किं प्राक्चुम्बनं नख-
च्छेद्यं दशनच्छेद्यं वा पश्चादिति नास्त्येषां प्रयोगक्रम, इत्याह -
 
चुम्वननखदशनच्छेद्यानां न पौर्वापर्यमस्ति । रागयोगात् । प्रा-
क्संयोगादेषां प्राधान्येन प्रयोगः । महणनसीत्कृतयोच संप्रयोगे ॥
 
न पौर्वापर्यमिति । रागवशादिति रागयोगात् । रागाविष्टो हि न क्र-
ममपेक्षते । अयं तु विशेषः—यदेषां प्राक्संयोगात्प्राग्यन्त्रयोगात् । य-
१. 'आश्लेषाः'; 'चाश्नेपाः.' २. 'सयोगाना न पौर्वापर्यम्.' ३. 'उपगूहनप्रकाशः.'
४. 'पूर्वापर्यमिति'; 'रागावशादिति.'