2023-02-19 13:59:01 by ambuda-bot
This page has not been fully proofread.
२ अध्याय:]
२ सांप्रयोगिकमधिकरणम् ।
१०३
उत्तानसंपुटे पार्श्वसंपुटे वा वक्रे वक्रं संयोज्य अक्ष्णोरक्षिणी दृष्टया-
लक्षीकरणेनासज्य । नासिकाया मुखनयनमध्यानुवर्तिनीत्वात्तत्संयोजनम-
थकम् । ललाटे ललाटं द्विस्त्रिराहत्य च तत्रैव भारमारोपयेदित्येवास्य
नायिका प्रयोक्नी । तेन ललाटिकेव ललाटिका । नायकललाटस्य संक्रा-
न्तिविशेषेणालंक्रियमाणत्वात् ।
संवाहनमप्युपगूहनप्रकारमित्येके मन्यन्ते । संस्पर्शत्वात् ॥
संवाहनमपीति । त्वङ्यांसास्थिसुखकरणेन त्रिविधं संवाहनमनमर्द-
नम् । तदपि संस्पर्शयुक्तत्वादुपगूहनविकारमेव द्रष्टव्यमित्येके ।
पृथक्कालत्वाद्भिन्नप्रयोजनत्वादसाधारणत्वान्नेति वात्स्यायनः ॥
पृथक्कालत्वादाचार्याः सर्व एव । पृथक्कालोऽस्येति पृथक्कालम् । उपगू-
हनात्संस्पर्शित्वेनाभेदेऽपि संवाहनं कालतो भिन्नम् । असाधारणत्वात् ।
उपगूहनं धनन्तरप्रयुक्तं द्वयोरप्येकस्मिन्काले कार्यकारीति साधारणम् ।
संवाहनं तु पुंसा प्रयुक्तं स्त्रियाः कार्यकारि, स्त्रिया च नायकस्येत्यसाघा-
रणम् । अतो गीतादिचतुःषष्टयाम् 'उत्सादने केशमर्दने कौशलम्' इत्यत्र
द्रष्टव्यम् । संस्पर्शत्वे च चुम्बनादीनामपि तद्विकारप्रदानप्रसङ्गात् ।
आलिङ्गनविषावादरार्थमाह -
पृच्छतां शृण्वतां वापि तथा कथयतामपि ।
उपगूहविधिं कृत्स्नं रिरंसा जायते नृणाम् ॥
पृच्छतामिति । पृच्छतां शृण्वतां पार्श्वस्थानाम् । कथयतां परेभ्यः ।
उपगूहविधिमिति । उपगूहनमुपगूहः । भावे घञ् वा । कृत्स्नं निरवशे-
षम् । क्वचित्कस्यचिदभिप्रायात् । रिरंसा रन्तुमिच्छा संजायते । किं
पुनर्ये प्रयुञ्जते ।
अनुक्कातिदेशमाह -
येsपि ह्यशास्त्रिताः केचित्संयोगा रागवर्धनाः ।
आदरेणैव तेऽप्यन्त्र प्रयोज्याः सांप्रयोगिकाः ॥
१. 'संयोज्यम्.' २. 'भावम् ' ३. 'पृथक्काल त्वाचार्या:.' ४. 'संस्पर्शित्वे च.'
५. 'सांप्रयोगिके.'